ऋषयो हे महाभागा महासत्त्वा महौजसः किमर्थं सहितास्सर्वे यूयमत्र समागताः
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन्
भगवन्नंधकारेण महता वयमावृताः खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम्
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् त्वया ह्यविदितं नाथ नेह किंचन विद्यते
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः देवानां दानवानां च मुनीनामपि सन्निधौ
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत
यतो वाचो निवर्तंते अप्राप्य मनसा सह आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते
कारणानां च यो धाता ध्याता परमकारणम् न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम्
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति येनेदमखिलं पूर्णं पुरुषेण महात्मना
एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः य एको बहुधा बीजं करोति स महेश्वरः
य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन
सदा जनानां हृदये संनिविष्टो ऽपि यः परैः अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि अनन्तशक्तिरेवैको भगवानधितिष्ठति
न यस्य दिवसो रात्रिर्न समानो न चाधिकः स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् तावुभावक्षरात्मानावेको देवः स्वयं हरः
ईशते तदभिध्यानाद्योजनासत्त्वभावनः भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः
एको देवो महादेवो विज्ञेयस्तु महेश्वरः न तस्य परमं किंचित्पदं समधिगम्यते
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः अनन्तानन्तसन्दोहमकरंदमधुव्रतः
अखंडजगदंडानां पिंडीकरणपंडितः औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः
नैवास्य सदृशं वस्तु नाधिकं चापि किंचन अतुलः सर्वभूतानां राजराजश्च तिष्ठति
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते