शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम्
चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् चत्वारिंशच्च द्विशतं वायवीयमतः परम्
चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम्
चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् तदिदं वर्तयिष्यामि भागद्वयसमन्वितम्
नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् न चैवाश्रद्धधानाय नापुराणविदे तथा
परीक्षिताय शिष्याय धार्मिकायानसूयवे प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे
पुराणसंहिता यस्य प्रसादान्मयि वर्तते नमो भगवते तस्मै व्यासायामिततेजसे
पुरा कालेन महता कल्पेतीते पुनःपुनः अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम्
इदं परमिदं नेति विवादस्सुमहानभूत् परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः
ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः
मेरुशृंगे शुभे रम्ये देवदानवसंकुले सिद्धचारणसंवादे यक्षगंधर्वसेविते
विहंगसंघसंघुष्टे मणिविद्रुमभूषिते निकुंजकंदरदरीगृहानिर्झरशोभिते
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् दशयोजनविस्तीर्णं शतयोजनमायतम्
सुरसामलपानीयपूर्णरम्यसरोवरम् मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम्
तरुणादित्यसंकाशं तत्र चारु महत्पुरम् दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम्
तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् निर्व्यूहवलभीकूटप्रतोलीशतमंडितम्
महार्हमणिचित्राभिर्लेलिहानमिवांबरम् महाभवनकोटीभिरनेकाभिरलंकृतम्
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम्
दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम्
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम्
दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम्
सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम्
तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम्
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे पुरुषाय पुराणाय ब्रह्मणे परमात्मने
नमः प्रधानदेहाय प्रधानक्षोभकारिणे त्रयोविंशतिभेदेन विकृतायाविकारिणे
नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने तत्र संसिद्धकार्याय संसिद्धकरणाय च
नमोस्तु सर्वलोकाय सर्वलोकविधायिने सर्वात्मदेहसंयोग वियोगविधिहेतवे
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् तथापि मायया नाथ न विद्मस्त्वां पितामह
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव