दशधा चाष्टधा चैतत्पुराणमुपदिश्यते बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा भविष्यं नारदीयं च मार्कंडेयमतः परम्
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम्
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम्
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत्
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा
यदिदं शैवमाख्यातं पुराणं वेदसंमितम् तस्य भेदान्समासेन ब्रुवतो मे निबोधत
विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् औमं मातृपुराणं च रुद्रैकादशकं तथा
कैलासं शतरुद्रं च शतरुद्राख्यमेव च सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम्
धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया
रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम्
रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम्
सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् सहस्रकोटिरुद्राख्यमेकादशसहस्रकम्
चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम्
तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम्
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम्
विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका
पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता सप्तमी वायवीयाख्या सप्तैवं संहिता इह
विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम्
शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम्
चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् चत्वारिंशच्च द्विशतं वायवीयमतः परम्
चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम्
चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् तदिदं वर्तयिष्यामि भागद्वयसमन्वितम्
नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् न चैवाश्रद्धधानाय नापुराणविदे तथा
परीक्षिताय शिष्याय धार्मिकायानसूयवे प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे
पुराणसंहिता यस्य प्रसादान्मयि वर्तते नमो भगवते तस्मै व्यासायामिततेजसे
पुरा कालेन महता कल्पेतीते पुनःपुनः अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम्
इदं परमिदं नेति विवादस्सुमहानभूत् परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः