वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम्
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् श्वेतकल्पप्रसंगेन वायुना कथितं पुरा
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत
अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश
आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम्
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम्
अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः
यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि तदा विद्यासमासार्थं विश्वेश्वरनियोगतः
द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः निर्मितानि पुराणानि अन्यानि च ततः परम्
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया अरण्यामिव हव्याशी सत्यवत्यामजायत
संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः व्यस्तवेदतया लोके वेदव्यास इति श्रुतः
पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः अद्यापि देवलोके तच्छतकोटिप्रविस्तरम्
यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च वंशानुचरितं चैव पुराणं पञ्चलक्षणम्
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा भविष्यं नारदीयं च मार्कंडेयमतः परम्
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम्
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम्
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत्
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा
यदिदं शैवमाख्यातं पुराणं वेदसंमितम् तस्य भेदान्समासेन ब्रुवतो मे निबोधत
विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् औमं मातृपुराणं च रुद्रैकादशकं तथा
कैलासं शतरुद्रं च शतरुद्राख्यमेव च सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम्