एवंज्ञात्वातुमाहात्म्यंरुद्राक्षस्यमहेश्वरि सम्यग्धार्यास्समंत्राश्चभक्त्याधर्मविवृद्धये
इत्युक्तंगिरिजाग्रेहिशिवेनपरमात्मना भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम्
शिवस्यातिप्रियौज्ञेयौ भस्मरुद्राक्षधारिणौ तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः
भस्मरुद्राक्षधारी यः शिवभक्तस्स उच्यते पञ्चाक्षरजपासक्तः परिपूर्णश्चसन्मुखे
विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया पूजितोपिमहादेवोनाभीष्टफलदायकः
तत्सर्वं च समाख्यातं यत्पृष्टंहिमुनीश्वर भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम्
एतद्यःशृणुयान्नित्यंमाहात्म्यपरमंशुभम् रुद्राक्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात्
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत्
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः सर्वसिद्धिप्रदा नित्यंमुक्तिदा शिवशासनात्
नमश्शिवाय सोमाय सगणाय ससूनवे प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् महादेवं महात्मानं व्रजामि शरणं शिवम्
धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः महौजसो महाभागा महासत्रं वितेनिरे
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः मधुरः श्रवणानां च मनोज्ञपदपर्वणाम्
कथानां निपुणो वक्ता कालविन्नयवित्कविः आजगाम स तं देशं सूतः पौराणिकोत्तमः
तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः तस्मै साम च पूजां च यथावत्प्रत्यपादयन्
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः
ततस्तत्संगमादेव मुनीनां भावितात्मनाम् सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम्
अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन्
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् संप्राप्तोद्य महाभाग शैवराज महामते
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम्
रत्नानामुरुसाराणां रत्नाकर इवार्णवः यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि
तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः
एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम्
पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम्
अभिवंद्य महादेवं देवीं स्कंदं विनायकम् नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम्