त्रिवक्त्रोयोहिरुद्राक्षः साक्षात्साधनदस्सदा तत्प्रभावाद्भवेयुर्वैविद्याः सर्वाः प्रतिष्ठिताः
चतुर्वक्त्रः स्वयंब्रह्मानरहत्यांव्यपोहति दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः
पञ्चवक्त्रः स्वयंरुद्रः कालाग्निर्नामतः प्रभुः सर्वमुक्तिप्रदश्चैवसर्वकामफलप्रदः
अगम्यागमनंपापमभक्ष्यस्य च भक्षणम् इत्यादि सर्वपापानि पञ्चवक्त्रोव्यपोहति
षड्वक्त्रःकार्तिकेयस्तुधारणाद्दक्षिणेभुजे ब्रह्महत्यादिकैः पापैर्मुच्यतेनात्र संशयः
सप्तवक्त्रोमहेशानि ह्यनंगोनामनामतः धारणात्तस्य देवेशिदरिद्रोपीश्वरोभवेत्
रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत्
भैरवोनववक्त्रश्च कपिलश्चमुनिःस्मृतः दुर्गावातदधिष्ठात्री नवरूपामहेश्वरी
तं धारयेद्वामहस्ते रुद्राक्षंभक्तितत्परः सर्वेश्वरोभवेन्नूनंमम तुल्यो न संशयः
दशवक्त्रो महेशानि स्वयं देवो जनार्दनः धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात्
एकादशमुखोयस्तुरुद्राक्षःपरमेश्वरि सरुद्रोधारणात्तस्यसर्वत्रविजयीभवेत्
द्वादशास्यं तु रुद्राक्षं धारयेत्केशदेशके आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा
त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत्
चतुर्दशमुखो यो हि रुद्राक्षः परमःशिवः धारयेन्मूर्ध्नि तं भक्त्यासर्वपापं प्रणश्यति
इतिरुद्राक्षभेदा हि प्रोक्तावैमुखभेदतः
भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये रुद्राक्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः
विना मंत्रेण हो धत्ते रुद्राक्षं भुविमानवः स याति नरकं घोरं यावदिन्द्राश्चतुर्दश
रुद्राक्षमालिनंदृष्ट्वा भूतप्रेतपिशाचकाः डाकिनीशाकिनी चैव ये चान्ये द्रोहकारकाः
कृत्रिमं चैव यत्किंचिदभिचारादिकंचयात् तत्सर्वंदूरतोयातिदृष्ट्वा शंकितविग्रहम्
रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति देवीगणपतिस्सूर्यःसुराश्चान्येपिपार्वति
एवंज्ञात्वातुमाहात्म्यंरुद्राक्षस्यमहेश्वरि सम्यग्धार्यास्समंत्राश्चभक्त्याधर्मविवृद्धये
इत्युक्तंगिरिजाग्रेहिशिवेनपरमात्मना भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम्
शिवस्यातिप्रियौज्ञेयौ भस्मरुद्राक्षधारिणौ तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः
भस्मरुद्राक्षधारी यः शिवभक्तस्स उच्यते पञ्चाक्षरजपासक्तः परिपूर्णश्चसन्मुखे
विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया पूजितोपिमहादेवोनाभीष्टफलदायकः
तत्सर्वं च समाख्यातं यत्पृष्टंहिमुनीश्वर भस्मरुद्राक्षमाहात्म्यं सर्वकामसमृद्धिदम्
एतद्यःशृणुयान्नित्यंमाहात्म्यपरमंशुभम् रुद्राक्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात्
इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत्
विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः सर्वसिद्धिप्रदा नित्यंमुक्तिदा शिवशासनात्
नमश्शिवाय सोमाय सगणाय ससूनवे प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे