उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम्
त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् श्रवणादिं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः
एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः जगाम स्वविमानेन पदं परमशोभनम्
एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः
श्रवणादित्रिके ऽशक्तः किं कृत्वा मुच्यते जनः अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना
श्रवणादित्रिके ऽशक्तो लिंगं बेरं च शांकरम् संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम्
अपि द्रव्यं वहेदेव यथाबलमवंचयन् अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम्
मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः
विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम्
राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा
आवाहनादिसर्गांतं नित्यं कुर्यात्सुभक्तितः इत्थमभ्यर्च्य यन्देवं लिंगेबेरे च शांकरे
सिद्धिमेति शिवप्रीत्या हित्वापि श्रवणादिकम् लिंगबेरार्चनामात्रान्मुक्ताः पुर्वे महाजनाः
बेरमात्रे तु सर्वत्र पूज्यंते देवतागणाः लिंगेबेरे च सर्वत्र कथं संपूज्यते शिवः
अहो मुनीश्वराः पुण्यं प्रश्नमेतन्महाद्भुतम् अत्र वक्ता महादेवो नान्यो ऽस्ति पुरुषः क्वचित्
शिवेनोक्तं प्रवक्ष्यामि क्रमाद्गुरुमुखाच्छ्रुतम् शिवैको ब्रह्मरूपत्वान्निष्कलः परिकीर्तितः
रूपित्वात्सकलस्तद्वत्तस्मात्सकलनिष्कलः निष्कलत्वान्निराकारं लिंगं तस्य समागतम्
सकलत्वात्तथा बेरं साकारं तस्य संगतम् सकलाकलरूपत्वाद्ब्रह्मशब्दाभिधः परः
अपि लिंगे च बेरे च नित्यमभ्यर्च्यते जनैः अब्रह्मत्वात्तदन्येषां निष्कलत्वं न हि क्वचित्
तस्मात्ते निष्कले लिंगे नाराध्यंते सुरेश्वराः अब्रह्मत्वाच्च जीवत्वात्तथान्ये देवतागणाः
तूष्णीं सकलमात्रत्वादर्च्यंते बेरमात्रके जीवत्वं शंकरान्येषां ब्रह्मत्वं शंकरस्य च
वेदांतसारसंसिद्धं प्रणवार्थे प्रकाशनात् एवमेव पुरा पृष्टो मंदरे नन्दिकेश्वरः
सनत्कुमारमुनिना ब्रह्मपुत्रेण धीमता शिवान्यदेववश्यानां सर्वेषामपि सर्वतः
बेरमात्रं च पूजार्थं श्रुतं दृष्टं च भूरिशः शिवमात्रस्य पूजायां लिंगं बेरं च दृश्यते
अतस्तद्ब्रूहि कल्याण तत्त्वं मे साधुबोधनम् अनुत्तरमिमं प्रश्नं रहस्यं ब्रह्मलक्षणम्
कथयामि शिवेनोक्तं भक्तियुक्तस्य ते ऽनघ शिवस्य ब्रह्मरूपत्वान्निष्कलत्वाच्च निष्कलम्
लिंगं तस्यैव पूजायां सर्ववेदेषु संमतम् तस्यैव सकलत्वाच्च तथा सकलनिष्कलम्
सकलं च तथा बेरं पूजायां लोकसंमतम् शिवान्येषां च जीवत्वात्सकलत्वाच्च सर्वतः
बेरमात्रं च पूजायां संमतं वेदनिर्णये स्वाविर्भावे च देवानां सकलं रूपमेव हि
शिवस्य लिंगं बेरं च दर्शने दृश्यते खलु उक्तं त्वया महाभाग लिंगबेरप्रचारणम्
शिवस्य च तदन्येषां विभज्य परमार्थतः तस्मात्तदेव परमं लिंगबेरादिसंभवम्