एकंशिखायांरुद्राक्षंचत्वारिंशत्तुमस्तके द्वात्रिंशत्कण्ठदेशेतुवक्षस्यष्टोत्तरंशतम्
एकैकंकर्णयोः षट्षड्बाह्वोःषोडशषोडश करयोरविमानेनद्विगुणेनमुनीश्वर
संख्याप्रीतिर्धृयायेनसोपिशैवजनःपरः शिववत्पूजनीयोहिवंद्यस्सर्वैरभीक्ष्णशः
शिरसीशानमंत्रेणकर्णेतत्पुरुषेण च अघोरेणगलेधार्यंतेनैवहृदयेपि च
अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः पञ्चदशाक्षग्रथितांवामदेवेनचोदरे
पञ्चब्रह्मभिरंगश्चत्रिमालां पञ्चसप्त च अथवामूलमंत्रेण सर्वानक्षांस्तुधारयेत्
मद्यंमांसंतुलशुनंपलाण्डुंशिग्रुमेव च श्लेष्मांतकं विड्वराहंभक्षणे वर्जयेत्ततः
वलक्षंरुद्राक्षंद्विजतनुभिरेवेहविहितंसुरक्तंक्षत्राणांप्रमुदितमुमेपीतमसकृत् ततोवैश्यैर्धायप्रतिदिवसभावश्यकमहोतथाकृष्णंशूद्रैःश्रुतिगदितमार्गोयमगजे
वर्णीवनीगृहयतीर्नियमेनदध्यादेतद्रहस्यपरमोनहिजातुतिष्ठेत् रुद्राक्षधारणमिदंसुकृतैश्चलभ्यंत्यक्त्वेदमेतदखिलान्नरकान्प्रयांति
आदावामलकात्स्वतो लघुतरा रुग्णास्ततःकंटकैःसंदष्टाःक्रिमिभिस्तनूपकरणच्छिद्रेण हीनास्तथा धार्यानैव शुभेप्सुभिश्चणकवद्रुद्राक्षमप्यंततोरुद्राक्षोममलिंगमंगलमुमेसूक्ष्मंप्रशस्तंसदा
सर्वाश्रमाणांवर्णानांस्त्रीशूद्रणांशिवाज्ञया धार्याः सदैवरुद्राक्षायतीनां प्रणवेन हि
दिवाबिभ्रद्रात्रिकृतैरात्रौविभ्रद्दिवाकृतैः प्रातर्मध्याह्नसायाह्नेमुच्यतेसर्वपातकैः
ये त्रिपुण्ड्र धरालोके जटाधारिण एव ये ये रुद्राक्षधरास्तेवैयमलोकंप्रयांतिन
रुद्राक्षमेकंशिरसाबिभर्तितथात्रिपुण्ड्रंचललाटमध्ये पञ्चाक्षरंयेहिजपंतिमंत्रंपूज्याभवद्भिः खलुतेहिसाधवः
यस्याङ्गेनास्तिरुद्राक्षस्त्रिपुण्ड्रंभालपट्टके मुखेपञ्चाक्षरंनास्तितमानययमालयम्
ज्ञात्वाज्ञात्वातत्प्रभावंभस्मरुद्राक्षधारिणः तेपूज्याः सर्वदास्माकंनोनेतव्याः कदाचन
एवमाज्ञापयामासकालोपिनिजकिङ्करान् तथेतिमत्त्वातेसर्वेतूष्णीमासन्सुविस्मिताः
अत एवमहादेविरुद्राक्षोत्यघनाशनः तद्धरोमत्प्रियः शुद्धो ऽत्यघवानपिपार्वति
हस्तेबाहौतथामूर्ध्निरुद्राक्षंधारयेत्तुयः अवध्यःसर्वभूतानांरुद्ररूपीचरेद्भुवि
सुरासुराणांसर्वेषां वंदनीयःसदासवै पूजनीयो हि दृष्टस्यपापहाचयथाशिवः
ध्यानज्ञानावमुक्तोपिरुद्राक्षंधारयेत्तुयः सर्वपापविनिर्मुक्तःसयातिपरमांगतिम्
रुद्राक्षेणजपन्मन्त्रं पुण्यंकोटि गुणं भवेत् दशकोटिगुणंपुण्यंधारणाल्लभते नरः
यावत्कालंहिजीवस्यशरीरस्थोभवेत्सवै तावत्कालंस्वल्पमृत्युर्नतंदेविबाधते
त्रिपुंड्रेणचसंयुक्तंरुद्राक्षाविलसांगकम् मृत्युंजयंजपंतंचदृष्ट्वारुद्रफलंलभेत्
पञ्चदेवप्रियश्चैवसर्वदेवप्रियस्तथा सर्वमन्त्राञ्जपेद्भक्तोरुद्राक्षमालयाप्रिये
विष्ण्वादिदेवभक्ताश्चधारयेयुर्नसंशयः रुद्रभक्तो विशेषेणरुद्राक्षान्धारयेत्सदा
रुद्राक्षाविविधाःप्रोक्तास्तेषां भेदान्वदाम्यहम् शृणुपार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान्
एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः तस्यदर्शनमात्रेणब्रह्महत्याव्यपोहति
यत्रसंपूजितस्तत्रलक्ष्मीर्दूरतरा नहि नश्यंत्युपद्रवाःसर्वेसर्वकामाभवंतिहि
द्विवक्त्रोदेवदेवेशस्सर्वकामफलप्रदः विशेषतः सरुद्राक्षोगोवधंनाशयेद्द्रुतम्