त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः
शिखायांचत्रयंप्रोक्तंरुद्रक्षाणां महेश्वरि कर्णयोः षट् च षट्चैववामदक्षिणयोस्तथा
शतमेकोत्तरंकंठेबाह्वोर्वैरुद्रसंख्यया कूर्परद्वारयोस्तत्रमणिबंधेतथापुनः
उपवीतेत्रयंधार्यंशिवभक्तिरतैर्नरैः शेषानुर्वरितान्पञ्चसम्मितान्धारयेत्कटौ
एतत्संख्याधृतायेनरुद्राक्षाः परमेश्वरि तद्रूपं तु प्रणम्यंहिस्तुत्यंसर्वैर्महेशवत्
एवंभूतंस्थितंध्यानेयदाकृत्वासनैर्जनम् शिवेतिव्याहरंश्चैवदृष्ट्वापापैः प्रमुच्यते
शतादिकसहस्रस्यविधिरेषप्रकीर्तितः तदभावेप्रकारोन्यः शुभः संप्रोच्यतेमया
शिखायामेकरुद्राक्षंशिरसात्रिंशतंवहेत् पञ्चाशच्चगलेदध्याद्बाह्वोः षोडशषोडश
मणिबंधे द्वादशद्विस्कंधे पञ्चशतंवहेत् अष्टोत्तरशतैर्माल्यमुपवीतंप्रकल्पयेत्
एवंसहस्ररुद्राक्षान्धारयेद्योदृढव्रतः तंनमंतिसुराःसर्वेयथारुद्रस्तथैव सः
एकंशिखायांरुद्राक्षंचत्वारिंशत्तुमस्तके द्वात्रिंशत्कण्ठदेशेतुवक्षस्यष्टोत्तरंशतम्
एकैकंकर्णयोः षट्षड्बाह्वोःषोडशषोडश करयोरविमानेनद्विगुणेनमुनीश्वर
संख्याप्रीतिर्धृयायेनसोपिशैवजनःपरः शिववत्पूजनीयोहिवंद्यस्सर्वैरभीक्ष्णशः
शिरसीशानमंत्रेणकर्णेतत्पुरुषेण च अघोरेणगलेधार्यंतेनैवहृदयेपि च
अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः पञ्चदशाक्षग्रथितांवामदेवेनचोदरे
पञ्चब्रह्मभिरंगश्चत्रिमालां पञ्चसप्त च अथवामूलमंत्रेण सर्वानक्षांस्तुधारयेत्
मद्यंमांसंतुलशुनंपलाण्डुंशिग्रुमेव च श्लेष्मांतकं विड्वराहंभक्षणे वर्जयेत्ततः
वलक्षंरुद्राक्षंद्विजतनुभिरेवेहविहितंसुरक्तंक्षत्राणांप्रमुदितमुमेपीतमसकृत् ततोवैश्यैर्धायप्रतिदिवसभावश्यकमहोतथाकृष्णंशूद्रैःश्रुतिगदितमार्गोयमगजे
वर्णीवनीगृहयतीर्नियमेनदध्यादेतद्रहस्यपरमोनहिजातुतिष्ठेत् रुद्राक्षधारणमिदंसुकृतैश्चलभ्यंत्यक्त्वेदमेतदखिलान्नरकान्प्रयांति
आदावामलकात्स्वतो लघुतरा रुग्णास्ततःकंटकैःसंदष्टाःक्रिमिभिस्तनूपकरणच्छिद्रेण हीनास्तथा धार्यानैव शुभेप्सुभिश्चणकवद्रुद्राक्षमप्यंततोरुद्राक्षोममलिंगमंगलमुमेसूक्ष्मंप्रशस्तंसदा
सर्वाश्रमाणांवर्णानांस्त्रीशूद्रणांशिवाज्ञया धार्याः सदैवरुद्राक्षायतीनां प्रणवेन हि
दिवाबिभ्रद्रात्रिकृतैरात्रौविभ्रद्दिवाकृतैः प्रातर्मध्याह्नसायाह्नेमुच्यतेसर्वपातकैः
ये त्रिपुण्ड्र धरालोके जटाधारिण एव ये ये रुद्राक्षधरास्तेवैयमलोकंप्रयांतिन
रुद्राक्षमेकंशिरसाबिभर्तितथात्रिपुण्ड्रंचललाटमध्ये पञ्चाक्षरंयेहिजपंतिमंत्रंपूज्याभवद्भिः खलुतेहिसाधवः
यस्याङ्गेनास्तिरुद्राक्षस्त्रिपुण्ड्रंभालपट्टके मुखेपञ्चाक्षरंनास्तितमानययमालयम्
ज्ञात्वाज्ञात्वातत्प्रभावंभस्मरुद्राक्षधारिणः तेपूज्याः सर्वदास्माकंनोनेतव्याः कदाचन
एवमाज्ञापयामासकालोपिनिजकिङ्करान् तथेतिमत्त्वातेसर्वेतूष्णीमासन्सुविस्मिताः
अत एवमहादेविरुद्राक्षोत्यघनाशनः तद्धरोमत्प्रियः शुद्धो ऽत्यघवानपिपार्वति
हस्तेबाहौतथामूर्ध्निरुद्राक्षंधारयेत्तुयः अवध्यःसर्वभूतानांरुद्ररूपीचरेद्भुवि
सुरासुराणांसर्वेषां वंदनीयःसदासवै पूजनीयो हि दृष्टस्यपापहाचयथाशिवः