पुटाभ्यांचारुचक्षुर्भ्यांपतिताजलबिंदवः तत्राश्रुबिन्दवोजातावृक्षारुद्राक्षसंज्ञकाः
स्थावरत्वमनुप्राप्यभक्तानुग्रहकारणात् ते दत्ताविष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च
भूमौगौंडोद्भवांश्चक्रेरुद्राक्षाञ्छिववल्लभान् मथुरायामयोध्यायालंकायांमलये तथा
सह्याद्रौचतथाकाश्यांदशेष्वन्येषुवातथा परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात्
ब्राह्मणाःक्षत्रियावैश्याःशूद्राजाताममाज्ञया रुद्राक्षास्तेपृथिव्यांतुतज्जातीयाः शुभाक्षकाः
श्वेतरक्ताः पीतकृष्णावर्णाज्ञेयाः क्रमाद्बुधैः स्वजातीयंनृभिर्धार्यं रुद्राक्षंवर्णतः क्रमात्
वर्णैस्तुतत्फलंधार्यंभुक्तिमुक्तिफलेप्सुभिः शिवभक्तैर्विशेषेणशिवयोः प्रीतयेसदा
धात्रीफलप्रमाणंयच्छ्रेष्ठमेतदुदाहृतम् बदरीफलमात्रंतुमध्यमंसंप्रकीर्तितम्
अधमंचणमात्रंस्यात्प्रक्रियैषापरोच्यते शृणुपार्वतिसुप्रीत्याभक्तानांहितकाम्यया
बदरीफलमात्रंचयत्स्यात्किलमहेश्वरि तथापिफलदंलोकेसुखसौभाग्यवर्धनम्
धात्रीफलसमंयत्स्यात्सर्वारिष्टविनाशनम् गुंजयासदृशंयत्स्यात्सर्वार्थफलसाधनम्
यथायथालघुःस्याद्वैतथाधिकफलप्रदम् एकैकतःफलंप्रोक्तंदशांशैरधिकंबुधैः
रुद्राक्षधारणंप्रोक्तंपापनाशनहेतवे तस्माच्चधारणीयोवैसर्वार्थसाधनोध्रुवम्
यथाचदृश्यतेलोकेरुद्राक्षफलदः शुभः नतथादृश्यते ऽन्याचमालिकापरमेश्वरि
समाःस्निग्धादृढाःस्थूलाःकंटकैःसंयुताःशुभाः रुद्राक्षाःकामदादेविभुक्तिमुक्तिप्रदाः सदा
क्रिमिदुष्टंछिन्नभिन्नंकंटकैर्हीनमेवच व्रणयुक्तमवृत्तंचरुद्राक्षान्षड्विवर्जयेत्
स्वयमेवकृतद्वारंरुद्राक्षंस्यदिहोत्तमम् यत्तुपौरुषयत्नेनकृतंतन्मध्यमंभवेत्
रुद्राक्षधारणंप्राप्तंमहापातकनाशनम् रुद्रसंख्याशतंधृत्वरुद्ररूपोभवेन्नरः
एकादशशतानीहधृत्वायत्फलमाप्यते तत्फलंशक्यतेनैव वक्तुं वर्षशतैरपि
शतार्धेनयुतेः पञ्चशतैर्वै मुकुटं मतम् रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः
त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः
शिखायांचत्रयंप्रोक्तंरुद्रक्षाणां महेश्वरि कर्णयोः षट् च षट्चैववामदक्षिणयोस्तथा
शतमेकोत्तरंकंठेबाह्वोर्वैरुद्रसंख्यया कूर्परद्वारयोस्तत्रमणिबंधेतथापुनः
उपवीतेत्रयंधार्यंशिवभक्तिरतैर्नरैः शेषानुर्वरितान्पञ्चसम्मितान्धारयेत्कटौ
एतत्संख्याधृतायेनरुद्राक्षाः परमेश्वरि तद्रूपं तु प्रणम्यंहिस्तुत्यंसर्वैर्महेशवत्
एवंभूतंस्थितंध्यानेयदाकृत्वासनैर्जनम् शिवेतिव्याहरंश्चैवदृष्ट्वापापैः प्रमुच्यते
शतादिकसहस्रस्यविधिरेषप्रकीर्तितः तदभावेप्रकारोन्यः शुभः संप्रोच्यतेमया
शिखायामेकरुद्राक्षंशिरसात्रिंशतंवहेत् पञ्चाशच्चगलेदध्याद्बाह्वोः षोडशषोडश
मणिबंधे द्वादशद्विस्कंधे पञ्चशतंवहेत् अष्टोत्तरशतैर्माल्यमुपवीतंप्रकल्पयेत्
एवंसहस्ररुद्राक्षान्धारयेद्योदृढव्रतः तंनमंतिसुराःसर्वेयथारुद्रस्तथैव सः