यथासंभवनं कुर्याद्देशकालाद्यपेक्षया उद्धूलनेप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत्
त्रिनेत्रंत्रिगुणाधारंत्रिवेदजनकंशिवम् स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम्
ईशाभ्यांनम इत्युक्त्वापार्श्वयोश्च त्रिपुण्ड्रकम् बीजाभ्यां नम इत्युक्त्वाधारयेत्तुप्रकोष्ठयोः
कुर्यादधः पितृभ्यां च उमेशाभ्यांतथोपरि भीमायेतिततःपृष्ठेशिरसःपश्चिमेतथा
शैनकर्षे महाप्राज्ञशिवरूपमहापते शृणुरुद्राक्षमाहात्म्यं समासात्कथयाम्यहम्
शिवप्रियतमोज्ञेयो रुद्राक्षः परपावनः दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरःस्मृतः
पुरारुद्राक्षमहिमादेव्यग्रेकथितोमुने लोकोपकरणार्थायशिवेन परमात्मना
शृणुदेविमहेशानिरुद्राक्षमहिमाशिवे कथयामितवप्रीत्याभक्तानांहितकाम्यया
दिव्यवर्षसहस्राणि महेशानिपुनःपुरा तपःप्रकुर्वतस्त्रस्तंमनः संयम्यवै मम
स्वतंत्रेण परेशेन लोकोपकृतिकारिणा लीलयापरमेशानि चक्षुरुन्मीलितंमया
पुटाभ्यांचारुचक्षुर्भ्यांपतिताजलबिंदवः तत्राश्रुबिन्दवोजातावृक्षारुद्राक्षसंज्ञकाः
स्थावरत्वमनुप्राप्यभक्तानुग्रहकारणात् ते दत्ताविष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च
भूमौगौंडोद्भवांश्चक्रेरुद्राक्षाञ्छिववल्लभान् मथुरायामयोध्यायालंकायांमलये तथा
सह्याद्रौचतथाकाश्यांदशेष्वन्येषुवातथा परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात्
ब्राह्मणाःक्षत्रियावैश्याःशूद्राजाताममाज्ञया रुद्राक्षास्तेपृथिव्यांतुतज्जातीयाः शुभाक्षकाः
श्वेतरक्ताः पीतकृष्णावर्णाज्ञेयाः क्रमाद्बुधैः स्वजातीयंनृभिर्धार्यं रुद्राक्षंवर्णतः क्रमात्
वर्णैस्तुतत्फलंधार्यंभुक्तिमुक्तिफलेप्सुभिः शिवभक्तैर्विशेषेणशिवयोः प्रीतयेसदा
धात्रीफलप्रमाणंयच्छ्रेष्ठमेतदुदाहृतम् बदरीफलमात्रंतुमध्यमंसंप्रकीर्तितम्
अधमंचणमात्रंस्यात्प्रक्रियैषापरोच्यते शृणुपार्वतिसुप्रीत्याभक्तानांहितकाम्यया
बदरीफलमात्रंचयत्स्यात्किलमहेश्वरि तथापिफलदंलोकेसुखसौभाग्यवर्धनम्
धात्रीफलसमंयत्स्यात्सर्वारिष्टविनाशनम् गुंजयासदृशंयत्स्यात्सर्वार्थफलसाधनम्
यथायथालघुःस्याद्वैतथाधिकफलप्रदम् एकैकतःफलंप्रोक्तंदशांशैरधिकंबुधैः
रुद्राक्षधारणंप्रोक्तंपापनाशनहेतवे तस्माच्चधारणीयोवैसर्वार्थसाधनोध्रुवम्
यथाचदृश्यतेलोकेरुद्राक्षफलदः शुभः नतथादृश्यते ऽन्याचमालिकापरमेश्वरि
समाःस्निग्धादृढाःस्थूलाःकंटकैःसंयुताःशुभाः रुद्राक्षाःकामदादेविभुक्तिमुक्तिप्रदाः सदा
क्रिमिदुष्टंछिन्नभिन्नंकंटकैर्हीनमेवच व्रणयुक्तमवृत्तंचरुद्राक्षान्षड्विवर्जयेत्
स्वयमेवकृतद्वारंरुद्राक्षंस्यदिहोत्तमम् यत्तुपौरुषयत्नेनकृतंतन्मध्यमंभवेत्
रुद्राक्षधारणंप्राप्तंमहापातकनाशनम् रुद्रसंख्याशतंधृत्वरुद्ररूपोभवेन्नरः
एकादशशतानीहधृत्वायत्फलमाप्यते तत्फलंशक्यतेनैव वक्तुं वर्षशतैरपि
शतार्धेनयुतेः पञ्चशतैर्वै मुकुटं मतम् रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः