एवंत्रिपुंड्रमाहात्म्यंसमासात्कथितंमया रहस्यंसर्वजंतूनां गोपनीयमिदं त्वया
तिस्रोरेखाभवंत्येवस्थानेषुमुनिपुंगवाः ललाटादिषुसर्वेषुयथोक्तेषुबुधैर्मुने
भ्रुवोर्मध्यंसमारभ्ययावदंतोभवेद्भ्रुवोः तावत्प्रमाणंसंधार्यं ललाटे च त्रिपुंड्रकम्
मध्यमानामिकांगुल्यामध्येतुप्रतिलोमतः अंगुष्ठेन कृतारेखा त्रिपुंड्राख्या भिधीयते
मध्येंगुलिभिरादाय तिसृभिर्भस्मयत्नतः त्रिपुण्ड्रधारयेद्भक्त्याभुक्तिमुक्तिप्रदंपरम्
तिसृणामपि रेखानां प्रत्येकंनवदेवताः सर्वत्रांगेषुतावक्ष्येसावधानतया शृणु
अकारो गार्हपत्याग्निर्भूधर्मश्च रजोगुणः ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च
महदेवश्च रेखायाः प्रथमायाश्च देवता विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः
उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ
महेश्वरश्च रेखाया द्वितीयायाश्च देवता विज्ञेयामुनिशार्दूल शिवदीक्षापरायणैः
मकाराहवनीयौ च परमात्मा तमोदिवौ ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा
शिवश्चैव च रेखायास्तृतियायाश्च देवता विज्ञेयामुनिशार्दूल शिवदीक्षापरायणौ
एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः त्रिपुंड्रं धारयेच्छुद्धो भुक्तिंमुक्तिं च विंदति
इत्युक्ताःस्थानदेवाश्चसर्वांगेषुमुनिश्वर तेषां संबंधिनोभक्त्यास्थानानिशृणुसांप्रतम्
द्वात्रिंशत्स्थानके वार्धषोडशस्थानकेपि च अष्टस्थाने तथा चैव पञ्चस्थानेपि नान्यसेत्
उत्तमांगे ललाटे च कर्णयोर्नेत्रयोस्तथा नासावक्त्रगलेष्वेवंहस्तद्वय अतःपरम्
कूर्परे मणिबंधेचहृदयेपार्श्वयोर्द्वयोः नाभौमुष्कद्वयेचैवमूर्वोर्गुल्फेचजानुनि
जंघाद्वयेपदद्वन्द्वेद्वात्रिंशत्स्थानमुत्तमम् अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह
धराध्रुवश्चसोमश्च अपश्चेवानिलोनलः प्रत्यूषश्च प्रभासश्चवसवोष्टप्रकीर्तिताः
एतेषांनाममात्रेणत्रिपुंड्रंधारयेद्बुधाः कुर्याद्वाषोडशस्थानेत्रिपुण्ड्रंतुसमाहितः
शीर्षकेचललाटेचकंठेचांसद्वयेभुजे कूर्परेमणिबंधेचहृदयेनाभिपार्श्वके
पृष्ठेचैवंप्रतिष्ठाययजेत्तत्राश्विदैवते शिवशक्तिंतथारुद्रमीशंनारदमेवच
वामादिनवशक्तीश्च एताः षोडशदेवताः नासत्योदस्रकश्चैव अश्विनौद्वौप्रकीर्तितौ
अथवामूर्ध्निकेशेचकर्मयोर्वदनेतथा बाहुद्वये च हृदयेनाभ्यामूरुयुगेतथा
जानुद्वयेचपदयोः पृष्ठभागे च षोडश शिवश्चन्द्रश्च रुद्रःको विघ्नेशोविष्णुरेव वा
श्रीश्चैवहृदयेशम्भुस्तथानाभौप्रजापतिः नागश्चनागकन्याश्च उभयोरृषिकन्यकाः
पादयोश्चसमुद्राश्चतीर्थाः पृष्ठे विशालतः इत्येव षोडश स्थानमथोच्यते
गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम्
ब्रह्मा च ऋषयः सप्तदेवताश्चप्रकीर्तिताः इत्येवं तु समुद्दिष्टं भस्मविद्भिर्मुनीश्वराः
अथ वा मस्तकं बाहूहृदयं नाभिरेव च पञ्चस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः