ब्रह्मचारीगृहस्थोवावानप्रस्थोथवायतिः ब्रह्मक्षत्त्राश्चविट्शूद्रास्तथान्ये पतिताधमाः
उद्धूलनंत्रिपुंड्रं च धृत्वाशुद्धाभवंतिच भस्मनोविधिना सम्यक्पापराशिंविहाय च
भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः वीरहत्याश्वहत्याभ्यां मुच्यतेनात्र संशयः
परद्रव्यापहरणं परदाराभिमर्शनम् परनिन्दा परक्षेत्रहरणं परपीडनम्
सस्यारामादिहरणं गृहदाहादिकर्म च गोहिरण्यमहिष्यादितिलकम्बलवाससाम्
अन्नधान्यजलादीनां नीचेभ्यश्चपरिग्रहः दशवेश्यामतंगीषु वृषलीषु नटीषु च
रजस्वलासु कन्यासु विधवासु च मैथुनम् मांसचर्मरसादीनां लवणस्य च विक्रयः
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् एवमादीन्यसंख्यानि पापानि विधानि च सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात्
शिवद्रव्यापहरणंशिवनिंदाचकुत्रचित् निंदाचशिवभक्तानांप्रायश्चित्तैर्नशुद्ध्यति
रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् सचांडालोपिसंपूज्यस्सर्ववर्णोत्तमोत्तमः
यानितीर्थानिलोकेस्मिन्गंगाद्यास्सरितश्चयोः स्नातोभवतिसर्वत्रललाटेयस्त्रिपुंड्रकम्
सप्तकोटि महामंत्राः पञ्चाक्षरपुरस्सराः तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः
अन्ये मंत्राश्च देवानां सर्वसौख्यकरामुने ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम्
सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत्
इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः जीवितांते च मरणं सुखेनैव प्रपद्यते
अष्टैश्वर्यगुणोपेतंप्राप्यदिव्यवपुः शिवम् दिव्यंविमानमारुह्यदिव्यत्रिदशसेवितम्
विद्याधराणांसर्वेषांगंधर्वाणांमहौजसाम् इंद्रादिलोकपालानांलोकेषुचयथाक्रमम्
भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ब्रह्मणः पदमासाद्यतत्रकन्याशतंलमेत्
तत्र ब्रह्मायुषोमानंभुक्त्वाभोगाननेकशः विष्णोर्लोकेलभेद्भोगंयावद्ब्रह्मशतात्ययः
शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् शिवसायुज्यमाप्नोतिसंशयोनात्रजायते
सर्वोपनिषदांसारंसमालोक्यमुहुर्मुहुः इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम्
विभूतिंनिंदतेयोवैब्राह्मणः सोन्यजातकः यातिचनरकेघोरेयावद्ब्रह्मा चतुर्मुखः
श्राद्धेयज्ञेजपेहोमेवैश्वदेवेसुरार्चने धृतत्रिपुंड्रःपूतात्मामृत्युंजयतिमानवः
जलस्नानं मलत्यागेभस्मस्नानंसदाशुचि मंत्रस्नानंहरेत्पापंज्ञानस्नानेपरंपदम्
सर्वतीर्थेषुयत्पुण्यंसर्वतीर्थेषुयत्फलम् तत्फलंसमवाप्नोतिभस्मस्नानकरोनरः
भस्मस्नानं परं तीर्थंगंगास्नानंदिनेदिने भस्मरूपीशिवःसाक्षाद्भस्म त्रैलोक्यपावनम्
नतदूनंनतद्ध्यानंनतद्दानंजपोनसः त्रिपुंड्रेणविनायेन विप्रेण यदनुष्ठितम्
वानप्रस्थस्यकन्यानांदीक्षाहीननृणां तथा मध्याह्नात्प्राग्जलैर्युक्तंपरतोजलवर्जितम्
एवं त्रिपुंड्रं यः कुर्यान्नित्यंनियतमानसः शिवभक्तः सविज्ञेयो भुक्तिमुक्तिं च विंदति
यस्यांगेनैवरुद्राक्ष एकोपिबहुपुण्यदः तस्यजन्मनिरर्थंस्यात्त्रिपुंड्ररहितो यदि