नाश्नीयाज्जलमन्नमल्पमपिवा भस्माक्षधृत्याविना भुक्त्वावाथगृहीवनीपतियतिर्वर्णीतथासंकरः एनोभुङ्नरकंप्रयातिसतदागायत्रिजापेनतद्वर्णानां तु यतेस्तु मुख्यप्रणवाजपेन मुक्तंभवेत्
त्रिपुंड्रं ये विनिंदंति निन्दन्तिशिवमेवते धारयंतिचयेभक्त्या धारयन्ति तमेवते
धिग्भस्मरहितं भालंधिग्ग्राममशिवालयम् धिगनीशार्चनं जन्मधिग्विद्यामशिवाश्रयाम्
येनिंदंतिमहेश्वरंत्रिजगतामाधारभूतंहरं ये निन्दंतित्रिपुंड्रधारणकरं दोषस्तु तद्दर्शने तेवैसंकरसूकरासुरखरश्वक्रोष्टुकीटोपमाजाता एव भवंतिपापपरमास्तेनारकाः केवलम्
तेदृष्ट्वा शशिभास्करौनिशि दिनेस्वप्नेपिनोकेवलंपश्यंतुश्रुतिरुद्रसूक्तजपतोमुच्येततेनादृताः सत्संभाषणतोभवेद्धिनरकंनिस्तारवानास्थितंयेभस्मादिविधारणंहिपुरुषंनिंदंतिमंदाहिते
नतांत्रिकस्त्वधिकृतोनोर्ध्वपुंड्रधरोमुने संतप्तचक्रचिह्नोत्रशिवयज्ञेबहिष्कृतः
तत्रैतेबहवोलोकाबृहज्जाबालचोदिताः तेविचार्याःप्रयत्नेनततोभस्मरतोभवेत्
यच्चंदनैश्चंदनकेपिमिश्रंधार्यंहिभस्मैवत्रिपुंड्रभस्मना विभूतिभालोपरिकिंचनापिधार्यंसदानोयदिसंतिबुद्धयः
स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं भस्मद्विजादिभिरथो विधवाभिरेवम् तद्वत्सदाश्रमवतां विशदाविभूतिर्धार्यापवर्गफलदासकलाघहन्त्री
त्रिपुण्ड्रंकुरुतेयस्तु भस्मना विधिपूर्वकम् महापातकसंघातैर्मुच्यते चोपपातकैः
ब्रह्मचारीगृहस्थोवावानप्रस्थोथवायतिः ब्रह्मक्षत्त्राश्चविट्शूद्रास्तथान्ये पतिताधमाः
उद्धूलनंत्रिपुंड्रं च धृत्वाशुद्धाभवंतिच भस्मनोविधिना सम्यक्पापराशिंविहाय च
भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः वीरहत्याश्वहत्याभ्यां मुच्यतेनात्र संशयः
परद्रव्यापहरणं परदाराभिमर्शनम् परनिन्दा परक्षेत्रहरणं परपीडनम्
सस्यारामादिहरणं गृहदाहादिकर्म च गोहिरण्यमहिष्यादितिलकम्बलवाससाम्
अन्नधान्यजलादीनां नीचेभ्यश्चपरिग्रहः दशवेश्यामतंगीषु वृषलीषु नटीषु च
रजस्वलासु कन्यासु विधवासु च मैथुनम् मांसचर्मरसादीनां लवणस्य च विक्रयः
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् एवमादीन्यसंख्यानि पापानि विधानि च सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात्
शिवद्रव्यापहरणंशिवनिंदाचकुत्रचित् निंदाचशिवभक्तानांप्रायश्चित्तैर्नशुद्ध्यति
रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् सचांडालोपिसंपूज्यस्सर्ववर्णोत्तमोत्तमः
यानितीर्थानिलोकेस्मिन्गंगाद्यास्सरितश्चयोः स्नातोभवतिसर्वत्रललाटेयस्त्रिपुंड्रकम्
सप्तकोटि महामंत्राः पञ्चाक्षरपुरस्सराः तथान्ये कोटिशो मंत्राः शैवकैवल्यहेतवः
अन्ये मंत्राश्च देवानां सर्वसौख्यकरामुने ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुंड्रकम्
सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत्
इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः जीवितांते च मरणं सुखेनैव प्रपद्यते
अष्टैश्वर्यगुणोपेतंप्राप्यदिव्यवपुः शिवम् दिव्यंविमानमारुह्यदिव्यत्रिदशसेवितम्
विद्याधराणांसर्वेषांगंधर्वाणांमहौजसाम् इंद्रादिलोकपालानांलोकेषुचयथाक्रमम्
भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पदेषु च ब्रह्मणः पदमासाद्यतत्रकन्याशतंलमेत्
तत्र ब्रह्मायुषोमानंभुक्त्वाभोगाननेकशः विष्णोर्लोकेलभेद्भोगंयावद्ब्रह्मशतात्ययः
शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् शिवसायुज्यमाप्नोतिसंशयोनात्रजायते