उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये तेषांनास्तिसमाचारोवर्णाश्रमसमन्वितः
उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये तेषांनास्तिविनिमुंक्तिस्संसाराज्जन्मकोटिभिः
उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्तिये तेषांनास्तिशिवज्ञानंकल्पकोटिशतैरपि
उद्धूलनंत्रिपुंड्रं च श्रद्धयानाचरन्तिये तेमहापातकैर्युक्ता इतिशास्त्रीयनिर्णयः
उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्ति ये तेषामाचरितं सर्वंविपरीतफलाय हि
महापातकयुक्तानां जंतूनांशर्वविद्विषाम् त्रिपुंड्रोद्धूलनद्वेषोजायतेसुदृढं मुने
शिवाग्निकार्यं यः कृत्वाकुर्यात्त्रियायुषात्मवित् मुच्यतेसर्वपापैस्तुस्पृष्टेनभस्मनानरः
सितेनभस्मनाकुर्यात्त्रिसन्ध्यंयस्त्रिपुण्ड्रकम् सर्वपापविनिर्मुक्तः शिवेनसहमोदते
सितेनभस्मना कुर्यालाटे तु त्रिपुण्ड्रकम् योसावनादिभूतान्हिलोकानाप्तो मृतोभवेत्
अकृत्वा भस्मनास्नानं न जपेद्वैषडक्षरम् त्रिपुंड्रं च रचित्वा तु विधिनाभस्मनाजपेत्
अदयो वाधमो वापि सर्वपापान्वितोपि वा उषःपापान्वितो वापिमूर्खो वा पतितोपि वा
यस्मिन्देशेवसेन्नित्यंभूतिशासनसंयुतः सर्वतीर्थैश्चक्रतुभिःसांनिध्यंक्रियतेसदा
त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः
बहुनात्रकिमुक्तेनधार्यंभस्मसदा बुधैः लिंगार्चनंसदाकार्यंजप्योमंत्रःषडक्षरः
ब्रह्मणाविष्णुनावापि रुद्रेणमुनिभिः सुरैः भस्मधारणमाहात्म्यंनशक्यंपरिभाषितुम्
इति वर्णाश्रमाचारोलुप्तवर्णक्रियोपि च पापात्सकृत्त्रिपुंड्रस्यधारणात्सोपिमुच्यते
येभस्मधारिणंत्यक्त्वाकर्मकुर्वंतिमानवाः तेषां नास्तिविनिर्मोक्षः संसाराज्जन्मकोटिभिः
ते नाधीतंगुरोःसर्वंतेनसर्वमनुष्ठितम् येनविप्रेणशिरसित्रिपुंड्रंभस्मनाकृतम्
ये भस्मधारिणं दृष्ट्वानराः कुर्वंतिताडनम् तेषांचंडालतोजन्मब्रह्मन्नूह्यंविपश्चिता
मानस्तोकेनमंत्रेणमंत्रितंभस्मधारयेत् ब्राह्मणःक्षत्रियश्चैव प्रोक्तेष्वंगेषुभक्तिमान्
वैश्यस्त्रियंबकेनैवशूद्रःपञ्चाक्षरेणतु अन्येषां विधवास्त्रीणां विधिः प्रोक्तश्चशूद्रवत्
पञ्चब्रह्मादिमनुभिर्गृहस्थस्यविधीयते त्रियंबकेनमनुनाविधिर्वैब्रह्मचारिणः
अघोरेणाथमनुनाविपिनस्थविधिःस्मृतः यतिस्तुप्रणवेनैव त्रिपुंड्रादीनिकारयेत्
अतिवर्णाश्रमीनित्यंशिवोहंभावनात्परात् शिवयोगी च नियतमीशानेनापि धारयेत्
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् अन्यैरपि यथाजीवैस्सदेति शिवशासनम्
भस्मस्नानेनयावंतः कणाः स्वाङ्गेप्रतिष्ठिताः तावंति शिवलिंगानि तनौधत्तेहिधारकः
ब्राह्मणाः क्षत्रियावैश्याः शूद्राश्चापि च संकराः स्त्रियोथविधवाबालाः प्राप्ताः पाखंडिकास्तथा
ब्रह्मचारीगृहीवन्यःसंन्यासीवाव्रतीतथा नार्योभस्मत्रिपुंड्रांकामुक्ता एवनसंशयः
ज्ञानधृज्ञानतोवापिवह्निदाहसमोयथा ज्ञानाज्ञानधृतंभस्मपावयेत्सकलंनरम्