तद्भस्मत्रिविधंप्रोक्तंश्रोतंस्मार्तंचलौकिकम् भस्मैव स्वल्पसज्ञाहिबहुधापरिकीर्तितम्
श्रौतंभस्मतथास्मार्तंद्विजानामेवकीर्तितम् अन्येषामपिसर्वेषामपरंभस्मलौकिकम्
धारणंमंत्रतः प्रोक्तंद्विजानांमुनिपुंगवैः केवलंधारणंज्ञेयमन्येषांमंत्रवर्जितम्
आग्नेयमुच्यतेभस्मदग्धगोमयसंभवम् तदापिद्रव्यमित्युक्तंत्रिपुंड्रस्यमहामुने
अग्निहोत्रोत्थितंभस्मसंग्राह्यंवामनीषिभिः अन्ययज्ञोत्थितंवापित्रिपुण्ड्रस्यचधारणे
अग्निरित्यादिभिर्मंत्रैर्जाबालोपनिषद्गतेः सप्तभिधूलनंकार्यंभस्मनासजलेनच
वर्णानामाश्रमाणांचमंत्रतोमंत्रतोपि च त्रिपुंड्रोद्धूलनंप्रोक्तजाबालैरादरेणच
भस्मनोद्धूलनंचैवयथातिर्यक्त्रिपुंड्रकम् प्रमादादपिमोक्षार्थीनत्यजेदितिविश्रुतिः
शिवेनविष्णुनाचैवतथातिर्यक्त्रिपुंड्रकम् उमादेवीचलक्ष्मींश्चवाचान्याभिश्चनित्यशः
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपिचसंस्करैः अपभ्रंशैर्धृतंभस्मत्रिपुंड्रोद्धूलनात्मना
उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये तेषांनास्तिसमाचारोवर्णाश्रमसमन्वितः
उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरंतिये तेषांनास्तिविनिमुंक्तिस्संसाराज्जन्मकोटिभिः
उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्तिये तेषांनास्तिशिवज्ञानंकल्पकोटिशतैरपि
उद्धूलनंत्रिपुंड्रं च श्रद्धयानाचरन्तिये तेमहापातकैर्युक्ता इतिशास्त्रीयनिर्णयः
उद्धूलनंत्रिपुंड्रंचश्रद्धयानाचरन्ति ये तेषामाचरितं सर्वंविपरीतफलाय हि
महापातकयुक्तानां जंतूनांशर्वविद्विषाम् त्रिपुंड्रोद्धूलनद्वेषोजायतेसुदृढं मुने
शिवाग्निकार्यं यः कृत्वाकुर्यात्त्रियायुषात्मवित् मुच्यतेसर्वपापैस्तुस्पृष्टेनभस्मनानरः
सितेनभस्मनाकुर्यात्त्रिसन्ध्यंयस्त्रिपुण्ड्रकम् सर्वपापविनिर्मुक्तः शिवेनसहमोदते
सितेनभस्मना कुर्यालाटे तु त्रिपुण्ड्रकम् योसावनादिभूतान्हिलोकानाप्तो मृतोभवेत्
अकृत्वा भस्मनास्नानं न जपेद्वैषडक्षरम् त्रिपुंड्रं च रचित्वा तु विधिनाभस्मनाजपेत्
अदयो वाधमो वापि सर्वपापान्वितोपि वा उषःपापान्वितो वापिमूर्खो वा पतितोपि वा
यस्मिन्देशेवसेन्नित्यंभूतिशासनसंयुतः सर्वतीर्थैश्चक्रतुभिःसांनिध्यंक्रियतेसदा
त्रिपुंड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः पापान्वितोपि शुद्धात्मा किं पुनः श्रद्धया युतः
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः
बहुनात्रकिमुक्तेनधार्यंभस्मसदा बुधैः लिंगार्चनंसदाकार्यंजप्योमंत्रःषडक्षरः
ब्रह्मणाविष्णुनावापि रुद्रेणमुनिभिः सुरैः भस्मधारणमाहात्म्यंनशक्यंपरिभाषितुम्
इति वर्णाश्रमाचारोलुप्तवर्णक्रियोपि च पापात्सकृत्त्रिपुंड्रस्यधारणात्सोपिमुच्यते
येभस्मधारिणंत्यक्त्वाकर्मकुर्वंतिमानवाः तेषां नास्तिविनिर्मोक्षः संसाराज्जन्मकोटिभिः
ते नाधीतंगुरोःसर्वंतेनसर्वमनुष्ठितम् येनविप्रेणशिरसित्रिपुंड्रंभस्मनाकृतम्
ये भस्मधारिणं दृष्ट्वानराः कुर्वंतिताडनम् तेषांचंडालतोजन्मब्रह्मन्नूह्यंविपश्चिता