ईदृशंहिफलंप्रोक्तंनामादित्रितयोद्भवम् तन्माहात्म्यंविशेषेणवक्तुमर्हसिसुव्रत
ऋषयोहिमहाप्राज्ञाः सच्छैवाज्ञानिनांमराः तन्माहात्म्यंहिसद्भक्त्याशृणुतादरतोद्विजाः
सुगूढमपि शास्त्रेषुपुराणेश्रुतिष्वपि भवत्स्नेहान्मया विप्राःप्रकाशः क्रियते ऽधुना
कस्तत्त्रितयमाहात्म्यंसंजानातिद्विजोत्तमाः महेश्वरंविनासर्वंब्रह्माण्डेसदसत्परम्
वच्म्यहंनाममाहात्म्यंयथाभक्तिसमासतः शृणुतप्रीतितोविप्राः सर्वपापहरंपरम्
शिवेतिनामदावाग्नेर्महापातकपर्वताः भस्मीभवंत्यनायासात्सत्यंसत्यंनसंशयः
पापमूलानि दुःखानिविविधान्यपिशौनक शिवनामैकनश्यानिनान्यनश्यानिसर्वथा
सवैदिकः सपुण्यात्मासधन्यस्सबुधोमतः शिवनामजपासक्तोयोनित्यंभुविमानव
भवंतिविविधाधर्मास्तेषांसद्यःफलोन्मुखाः येषांभवतिविश्वासःशिवनामजपेमुने
पातकानिविनश्यंतियावंतिशिवनामतः भुवितावंतिपापानिक्रियंतेननरैर्मुने
ब्रह्महत्यादिपापानांराशीनप्रमितान्मुने शिवनामद्रुतंप्रोक्तंनाशयत्यखिलान्नरैः
शिवनामतरींप्राप्यसंसाराब्धिंतरंतिये संसारमूलपापानितानिनश्यंत्यसंशयम्
संसारमूलभूतानांपातकानांमहामुने शिवनामकुठारेणविनाशोजायतेध्रुवम्
शिवनामामृतंपेयंपापदावानलार्दितैः पापदावाग्नितप्तानांशांतिस्तेनविनानहि
शिवेतिनामपीयूषवर्षवर्षधारापरिप्लुताः संसारदवमध्येपिनशोचंतिकदाचन
शिवनाम्निमहद्भक्तिर्जातायेषांमहात्मनाम् तद्विधानांतुसहसामुक्तिर्भवतिसर्वथा
अनेकजन्मभिर्येनतपस्तप्तंमुनीश्वर शिवनाम्निभवेद्भक्तिःसर्वपापापहारिणी
यस्या साधारणं शंभुनाम्निभक्तिरखंडिता तस्यैवमोक्षः सुलभोनान्यस्येतिमतिर्मम
कृत्वाप्यनेकपापानिशिवनामजपादरः सर्वपापविनिर्मुक्तोभवत्येवनसंशयः
भवंतिभस्मसाद्वृक्षादवदग्धायथावने तथातावंतिदग्धानिपापानिशिवनामतः
योनित्यंभस्मपूतांगः शिवनामजपादरः संतरत्येवसंसारंसघोरमपिशौनक
ब्रह्मस्वहरणंकृत्वाहत्वापिब्राह्मणान्बहून् नलिप्यतेनरः पापैःशिवनामजपादरः
विलोक्यवेदानखिलाञ्छिवनामजपःपरम् संसारतारणोपाय इतिपूर्वैर्विनिश्चितः
किंबहूक्त्यामुनिश्रेष्ठाः श्लोकेनैकेनवच्म्यहम् शिवनाम्नोमहिमानंसर्वपापापहारिणम्
पापानांहरणेशंभोर्नामः शक्तिर्हिपावनी शक्नोतिपातकंतावत्कर्तुंनापिनरः क्वचित्
शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम् इन्द्रद्युम्ननृपःपूर्वंमहापापः पुरामुने
तथाकाचिद्द्विजायोषासौमुनेबहुपापिनी शिवनामप्रभावेणलेभेसद्गतिमुत्तमाम्
इत्युक्तंवोद्विजश्रेष्ठानाममाहात्म्यमुत्तमम् शृणुध्वंभस्ममाहात्म्यंसर्वपावनपावनम्
द्विविधंभस्मसंप्रोक्तंसर्वमंगलदंपरम् तत्प्रकारमहंवक्ष्येसावधानतयाशृणु
एकंज्ञेयं महाभस्मद्वितीयंस्वल्पसंज्ञकम् महाभस्म इतिप्रोक्तंभस्मनानाविधंपरम्