क्रमान्मननपर्यंते साधने ऽस्मिन्सुसाधिते शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः
सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम्
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम्
पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम्
गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति सा धनमत्र मध्यम्
येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रियेण स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम्
सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे
गच्छन्यदृछया तत्र विमानेनार्करोचिषा सनत्कुमारो भगवान्ददर्श मम देशिकम्
ध्यानारूढः प्रबुद्धो ऽसौ ददर्श तमजात्मजम् प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः स शिवोथासहायोत्र तपश्चरसि किं कृते
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः
बहुधा स्थापिता लोके मया त्वत्कृपया तथा एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम्
इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम्
श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् त्रयं साधनमुक्तं च विद्यते वेदसंमतम्
पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः अचले मंदरे शैले तपश्चरणमाचरम्
शिवाज्ञया ततः प्राप्तो भगवान्नन्दिकेश्वरः स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः
उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् श्रवणं कीर्तनं शंभोर्मननं वेदसंमतम्
त्रिकं च साधनं मुक्तौ शिवेन मम भाषितम् श्रवणादिं ब्रह्मन्कुरुष्वेति मुहुर्मुहुः
एवमुक्त्वा ततो व्यासं सानुगो विधिनंदनः जगाम स्वविमानेन पदं परमशोभनम्
एवमुक्तं समासेन पूर्ववृत्तांतमुत्तमम् श्रवणादित्रयं सूत मुक्त्योपायस्त्वयेरितः
श्रवणादित्रिके ऽशक्तः किं कृत्वा मुच्यते जनः अयत्नेनैव मुक्तिः स्यात्कर्मणा केन हेतुना
श्रवणादित्रिके ऽशक्तो लिंगं बेरं च शांकरम् संस्थाप्य नित्यमभ्यर्च्य तरेत्संसारसागरम्
अपि द्रव्यं वहेदेव यथाबलमवंचयन् अर्पयेल्लिंगबेरार्थमर्चयेदपि संततम्
मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः
विविधान्नं च नैवेद्यमपूपव्यंजनैर्युतम् छत्रं ध्वजं च व्यजनं चामरं चापि सांगकम्
राजोपचारवत्सर्वं धारयेल्लिंगबेरयोः प्रदक्षिणां नमस्कारं यथाशक्ति जपं तथा