तन्मुखञ्चतथायोवैपश्यतिप्रीतिमान्नरः तीर्थजन्यंफलंतस्यभवतीतिसुनिश्चितम्
यत्रत्रयंसदातिष्ठेदेतच्छुभतरंद्विजा तस्यदर्शनमात्रेणवेणीस्नानफलंलभेत्
शिवनामविभूतिश्चतथारुद्राक्ष एव च एतत्त्रयंमहापुण्यंत्रिवेणीसदृशंस्मृतम्
एतत्त्रयंशरीरेचयस्यतिष्ठतिनित्यशः तस्यैवदर्शनंलोकेदुर्लभंपापहारकम्
तद्दर्शनंयथावेणीनोभयोरंतरंमनाक् एवंयोनविजानातिसपापिष्ठोनसंशयः
विभूतिर्यस्यनोभालेनांगेरुद्राक्षधारणम् नास्ये शिवमयीवाणीतंत्यजेदधमंयथा
शैवंनामयथागंगाविभूतिर्यमुनामता रुद्राक्षं विधिजाप्रोक्तासर्वपापाविनाशिनी
शरीरेचत्रयंयस्यतत्फलंचैकतःस्थितम् एकतोवेणिकायाश्चस्नानजंतुफलंबुधैः
तदेवंतुलितंपूर्वंब्रह्मणाहितकारिणा समानं चैवतज्जातंतस्माद्धार्यंसदाबुधैः
तद्दिनंहिसमारभ्यब्रह्मविष्ण्वादिभिःसरैः धार्यते त्रितयंतच्चदर्शनात्पापहारकम्
ईदृशंहिफलंप्रोक्तंनामादित्रितयोद्भवम् तन्माहात्म्यंविशेषेणवक्तुमर्हसिसुव्रत
ऋषयोहिमहाप्राज्ञाः सच्छैवाज्ञानिनांमराः तन्माहात्म्यंहिसद्भक्त्याशृणुतादरतोद्विजाः
सुगूढमपि शास्त्रेषुपुराणेश्रुतिष्वपि भवत्स्नेहान्मया विप्राःप्रकाशः क्रियते ऽधुना
कस्तत्त्रितयमाहात्म्यंसंजानातिद्विजोत्तमाः महेश्वरंविनासर्वंब्रह्माण्डेसदसत्परम्
वच्म्यहंनाममाहात्म्यंयथाभक्तिसमासतः शृणुतप्रीतितोविप्राः सर्वपापहरंपरम्
शिवेतिनामदावाग्नेर्महापातकपर्वताः भस्मीभवंत्यनायासात्सत्यंसत्यंनसंशयः
पापमूलानि दुःखानिविविधान्यपिशौनक शिवनामैकनश्यानिनान्यनश्यानिसर्वथा
सवैदिकः सपुण्यात्मासधन्यस्सबुधोमतः शिवनामजपासक्तोयोनित्यंभुविमानव
भवंतिविविधाधर्मास्तेषांसद्यःफलोन्मुखाः येषांभवतिविश्वासःशिवनामजपेमुने
पातकानिविनश्यंतियावंतिशिवनामतः भुवितावंतिपापानिक्रियंतेननरैर्मुने
ब्रह्महत्यादिपापानांराशीनप्रमितान्मुने शिवनामद्रुतंप्रोक्तंनाशयत्यखिलान्नरैः
शिवनामतरींप्राप्यसंसाराब्धिंतरंतिये संसारमूलपापानितानिनश्यंत्यसंशयम्
संसारमूलभूतानांपातकानांमहामुने शिवनामकुठारेणविनाशोजायतेध्रुवम्
शिवनामामृतंपेयंपापदावानलार्दितैः पापदावाग्नितप्तानांशांतिस्तेनविनानहि
शिवेतिनामपीयूषवर्षवर्षधारापरिप्लुताः संसारदवमध्येपिनशोचंतिकदाचन
शिवनाम्निमहद्भक्तिर्जातायेषांमहात्मनाम् तद्विधानांतुसहसामुक्तिर्भवतिसर्वथा
अनेकजन्मभिर्येनतपस्तप्तंमुनीश्वर शिवनाम्निभवेद्भक्तिःसर्वपापापहारिणी
यस्या साधारणं शंभुनाम्निभक्तिरखंडिता तस्यैवमोक्षः सुलभोनान्यस्येतिमतिर्मम
कृत्वाप्यनेकपापानिशिवनामजपादरः सर्वपापविनिर्मुक्तोभवत्येवनसंशयः
भवंतिभस्मसाद्वृक्षादवदग्धायथावने तथातावंतिदग्धानिपापानिशिवनामतः