बिल्वमूले महादेवं लिंगरूपिणमव्ययम् यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम्
बिल्वमूले जलैर्यस्तु मूर्धानमभिषिंचति स सर्वतीर्थस्नातःस्यात्स एव भुवि पावनः
एतस्यबिल्वमूलस्याथालवालमनुत्तमम् जलाकुलंमहादेवोदृष्ट्वातुष्टोभवत्यलम्
पूजयेद्विल्वमूलं यो गंधपुष्पादिभिर्नरः शिवलोकमवाप्नोतिसंततिर्वर्धते सुखम्
बिल्वमूले दीपमालांयः कल्पयति सादरम् सतत्त्वज्ञानसंपन्नोमहेशांतर्गतोभवेत्
बिल्वशाखां समादाय हस्तेन नवपल्लवम् गृहीत्वापूजयेद्बिल्वंसचपापैः प्रमुच्यते
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः एकंवाकोटिगुणितंतस्यपुण्यंप्रजायते
बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् यो दद्याच्छिवभक्ताय स दरिद्रो न जायते
सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः
प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत्
अभिषेकान्ते नैवेद्यं शाल्यन्नेन समाचरेत् पूजान्ते स्थापयेल्लिंगं पुटे शुद्धे पृथग्गृहे
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् निवृत्तानां परंसूक्ष्मं लिंगमेव विशिष्यते
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् पूजां कृत्वा तथा लिंगंशिरसाधारयेत्सदा
सूतसूतमहाभागव्यासशिष्यनमोस्तुते तदेवव्यासतोब्रूहिभस्ममाहात्म्यमुत्तमम्
तथा रुद्राक्षमाहात्म्यं नाम माहात्म्यमुत्तमम् त्रितयं ब्रूहिसुप्रीत्याममानंदयचेतसम्
साधुपृष्टंभवद्भिश्चलोकानांहितकारकम् भवंतोवैमहाधन्याः पवित्राः कुलभूषणाः
येषांचैवशिवःसाक्षाद्दैवतंपरमंशुभम् सदाशिवकथालोकेवल्लभाभवतां सदा
तेधन्याश्चकृतार्थाश्चसफलंदेहधारणम् उद्धृतञ्चकुलंतेषांयेशिवंसमुपासते
मुखेयस्यशिवनामसदाशिवशिवेतिच पापानिनस्पृशंत्येवखदिरांगारंकयथा
श्रीशिवायनमस्तुभ्यंमुखंव्याहरतेयदा तन्मुखंपावनंतीर्थंसर्वपापविनाशनम्
तन्मुखञ्चतथायोवैपश्यतिप्रीतिमान्नरः तीर्थजन्यंफलंतस्यभवतीतिसुनिश्चितम्
यत्रत्रयंसदातिष्ठेदेतच्छुभतरंद्विजा तस्यदर्शनमात्रेणवेणीस्नानफलंलभेत्
शिवनामविभूतिश्चतथारुद्राक्ष एव च एतत्त्रयंमहापुण्यंत्रिवेणीसदृशंस्मृतम्
एतत्त्रयंशरीरेचयस्यतिष्ठतिनित्यशः तस्यैवदर्शनंलोकेदुर्लभंपापहारकम्
तद्दर्शनंयथावेणीनोभयोरंतरंमनाक् एवंयोनविजानातिसपापिष्ठोनसंशयः
विभूतिर्यस्यनोभालेनांगेरुद्राक्षधारणम् नास्ये शिवमयीवाणीतंत्यजेदधमंयथा
शैवंनामयथागंगाविभूतिर्यमुनामता रुद्राक्षं विधिजाप्रोक्तासर्वपापाविनाशिनी
शरीरेचत्रयंयस्यतत्फलंचैकतःस्थितम् एकतोवेणिकायाश्चस्नानजंतुफलंबुधैः
तदेवंतुलितंपूर्वंब्रह्मणाहितकारिणा समानं चैवतज्जातंतस्माद्धार्यंसदाबुधैः
तद्दिनंहिसमारभ्यब्रह्मविष्ण्वादिभिःसरैः धार्यते त्रितयंतच्चदर्शनात्पापहारकम्