दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः भक्तेतुशिवनैवेद्येपुण्यान्या यांतिकोटिशः
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात्
यद्गृहेशिवनैवेद्यप्रचारोपिप्रजायते तद्गृहंपावनंसर्वमन्यपावनकारणम्
आगतं शिवनैवेद्यं गृहीत्वा शिरसामुदा भक्षणीयंप्रयत्ने न शिवस्मरणपूर्वकम्
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि विलंबेपापसंबंधोभवत्येव हि मानवे
न यस्य शिवनैवेद्यग्रहणेच्छाप्रजायते सपापिष्ठोगरिष्ठःस्यान्नरकंयात्यपिध्रुवम्
हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते
शिवदीक्षान्वितोभक्तो महाप्रसादसंज्ञकम् सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम्
अन्यदीक्षायुजांन्ःणांशिवभक्तिरतात्मनाम् शृणुध्वंनिर्णयंप्रीत्याशिवनैवेद्यभक्षणे
शालग्रामोद्भवे लिंगे रसलिंगेतथा द्विजाः पाषाणे राजतेस्वर्णेसुरसिद्धप्रतिष्ठिते
काश्मीरे स्फाटिकेरात्ने ज्योतिर्लिंगेषु सर्वशः चान्द्रायणसमं प्रोक्तं शंभोर्नैवेद्यभक्षणम्
ब्रह्महापि शुचिर्भूत्वा निर्माल्यंयस्तुधारयेत् भक्षयित्वाद्रुतंतस्यसर्वपापं प्रणश्यति
चंडाधिकारोयत्रास्तितद्भाक्तव्यंनमानवैः चंडाधिकारोनोयत्रभोक्तव्यंतच्चभक्तितः
बाणलिंगेचलौहेचसिद्धेलिंगेस्वयंभुवि प्रतिमासुचसर्वासुनचंडोधिकृतोभवेत्
स्नापयित्वाविधानेनयोलिंगस्नापनोदकम् त्रिःपिबेत्त्रिविधंपापंतस्येहाशु विनश्यति
अग्राह्यंशिवनैवेद्यं पत्रंपुष्पंफलंजलम् शालग्रामशिलासंगात्सर्वं याति पवित्रिताम्
लोंगोपरि च यद्द्रव्यंतदग्राह्यं मुनीश्वराः सुपवित्रं च तज्ज्ञेयं यल्लिंगस्पर्शबाह्यतः
नैवेद्यनिर्णयःप्रोक्त इत्थंवोमुनिसत्तमाः शृणुध्वं बिल्वमाहात्म्यं सावधानतया ऽदरात्
महादेवस्वरूपोयं बिल्वोदेवैरपिस्तुतिः यथाकथंचिदेतस्यमहिमाज्ञायतेकथम्
पुण्यतीर्थानियावंतिलोकेषुप्रथितान्यपि तानिसर्वाणितीर्थानिबिल्वमूलेवसंतिहि
बिल्वमूले महादेवं लिंगरूपिणमव्ययम् यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम्
बिल्वमूले जलैर्यस्तु मूर्धानमभिषिंचति स सर्वतीर्थस्नातःस्यात्स एव भुवि पावनः
एतस्यबिल्वमूलस्याथालवालमनुत्तमम् जलाकुलंमहादेवोदृष्ट्वातुष्टोभवत्यलम्
पूजयेद्विल्वमूलं यो गंधपुष्पादिभिर्नरः शिवलोकमवाप्नोतिसंततिर्वर्धते सुखम्
बिल्वमूले दीपमालांयः कल्पयति सादरम् सतत्त्वज्ञानसंपन्नोमहेशांतर्गतोभवेत्
बिल्वशाखां समादाय हस्तेन नवपल्लवम् गृहीत्वापूजयेद्बिल्वंसचपापैः प्रमुच्यते
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः एकंवाकोटिगुणितंतस्यपुण्यंप्रजायते
बिल्वमूले क्षीरमुक्तमन्नमाज्येन संयुतम् यो दद्याच्छिवभक्ताय स दरिद्रो न जायते
सांगोपांगमिति प्रोक्तं शिवलिंगप्रपूजनम् प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः
प्रवृत्तानां पीठपूजां सर्वपूजां समाचरेत्