किंबहूक्तेनमुनयःस्त्रीणामपितथान्यतः अधिकारोस्तिसर्वेषांशिवलिंगार्चनेद्विजाः
द्विजानांवैदिकेनापिमार्गेणाराधनंवरम् अन्येषामपिजंतूनांवैदिकेननसंमतम्
वैदिकानांद्विजानांचपूजावैदिकमार्गतः कर्तव्यानान्यमार्गेण इत्याहभगवाञ्छिवः
दधीच गौतमादीनांशापेनादग्धचेतसाम् द्विजानां जायतेश्रद्धानैव वैदिककर्मणि
योवैदिकमनादृत्यकर्मस्मार्तमथापिवा अन्यत्समाचरेन्मर्त्योनसंकल्पफलंलभेत्
इत्थंकृत्वार्चनंशंभोर्नैवेद्यांतंविधानतः पूजयेदष्टमूर्तीश्चतत्रैवत्रिजगन्मयीः
क्षितिरापोनलोवायुराकाशः सूर्यसोमकौ यजमान इति त्वष्टौमूर्तयःपरिकीर्तिताः
शर्वोभवश्च रुद्रश्च उग्रोभीम इतीश्वरः महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत्
पूजयेत्परिवारं चततःशंभोःसुभक्तितः ईशानादिक्रमात्तत्रचंदनाक्षतपत्रकैः
ईशानंनन्दिनंचंडंमहाकालंचभृंगिणम् वृषंस्कंदंकपर्दीशंसोमंशुक्रंचतत्क्रमात्
अग्रतोवीरभद्रं च पृष्ठेकीर्तिमुखं तथा तत एकादशान्नुद्रान्पूजयेद्विधिनाततः
ततःपञ्चाक्षरं जप्त्वा शतरुद्रियमेव च स्तुतीर्नानाविधाः कृत्वा पञ्चांगपठनं तथा
ततः प्रदक्षिणां कृत्वा नत्वा लिंगं विसर्जयेत् इतिप्रोक्तमशेषं च शिवपूजनमादरात्
रात्रावुदङ्मुखः कुर्याद्देवकार्यंसदैवहि शिवार्चनं सदाप्येवंशुचिः कुर्यादुदङ्मुखः
न प्राचीमग्रतः शंभोर्नोदीचीं शक्तिसंहितान् नप्रतीचींयतः पृष्ठमतोग्राह्यं समाश्रयेत्
विनाभस्मत्रिपुंड्रेण विना रुद्राक्षमालया बिल्वपत्रं विना नैव पूजयेच्छंकरं बुधः
भस्माप्राप्तौमुनिश्रेष्ठाः प्रवृत्ते शिवपूजने तस्मान्मृदापि कर्तव्यं ललाटे च त्रिपुण्ड्रकम्
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने
सर्वंवदामिसंप्रीत्या धन्या यूयं शिवव्रताः
शिवभक्तः शुचिः शुद्धः सद्व्रतीदृढनिश्चयः भक्षयेच्छिवनैवेद्यंत्यजेदग्राह्यभावनाम्
दृष्ट्वापि शिवनैवेद्ये यांति पापानि दूरतः भक्तेतुशिवनैवेद्येपुण्यान्या यांतिकोटिशः
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात्
यद्गृहेशिवनैवेद्यप्रचारोपिप्रजायते तद्गृहंपावनंसर्वमन्यपावनकारणम्
आगतं शिवनैवेद्यं गृहीत्वा शिरसामुदा भक्षणीयंप्रयत्ने न शिवस्मरणपूर्वकम्
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि विलंबेपापसंबंधोभवत्येव हि मानवे
न यस्य शिवनैवेद्यग्रहणेच्छाप्रजायते सपापिष्ठोगरिष्ठःस्यान्नरकंयात्यपिध्रुवम्
हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते
शिवदीक्षान्वितोभक्तो महाप्रसादसंज्ञकम् सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम्
अन्यदीक्षायुजांन्ःणांशिवभक्तिरतात्मनाम् शृणुध्वंनिर्णयंप्रीत्याशिवनैवेद्यभक्षणे
शालग्रामोद्भवे लिंगे रसलिंगेतथा द्विजाः पाषाणे राजतेस्वर्णेसुरसिद्धप्रतिष्ठिते