सुहृत्कामीत्रिसाहस्रंवश्यार्थीशतमष्टकम् मारणार्थीसप्तशतंमोहनार्थीशताष्टकम्
उच्चाटनपरश्चैवसहस्रंचयथोक्ततः स्तंभनार्थीसहस्रंतुद्वेषणार्थी तदर्धकम्
निगडान्मुक्तिकामस्तुसहस्रंसर्धमुत्तमम् महाराजभयेपञ्चशतंज्ञेयंविचक्षणैः
चौरादिसंकटेज्ञेयंपार्थिवानांशतद्वयम् डाकिन्यादिभयेपञ्चशतमुक्तंजपार्थिवम्
दारिद्र्येपञ्चसाहस्रमयुतंसर्वकामदम् अथनित्यविधिंवक्ष्येशृणुध्वंमुनिसत्तमाः
एकंपापहरंप्रोक्तंद्विलिंगंचार्थसिद्धिदम् त्रिलिंगंसर्वकामानांकारणंपरमीरितम्
उत्तरोत्तरमेवंस्यात्पूर्वोक्तगणानाविधि मतांतरमथोवक्ष्येसंख्यायांमुनिभेदतः
लिंगानामयुतंकृत्वापार्थिवानांसुबुद्धिमान् निर्भयोहिभवेन्नूनंमहाराजभयंहरेत्
कारागृहादिमुक्त्यर्थमयुतंकारयेद्बुधः डाकिन्यादिभयेसप्तसहस्रंकारयेत्तथा
सहस्राणिपञ्चपञ्चाशदपुत्रःप्रकारयेत् लिंगानामयुतेनैवकन्यकासंततिंलभेत्
लिंगानामयुतेनैवविष्ण्वादैश्वर्यमाप्नुयात् लिंगानांप्रयुतेनैवह्यतुलांश्रियमाप्नुयात्
कोटिमेकांतुलिंगानां यः करोतिनरोभुवि शिव एवभवेत्सोपिनात्रकार्या विचारणा
अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा भुक्तिदामुक्तिदानित्यंततःकामर्थिनांनृणाम्
विनालिंगार्चनं यस्य कालोगच्छति नित्यशः महाहानिर्भवेत्तस्यदुर्वृत्तस्यदुरात्मनः
एकतः सर्वदानानि व्रतानि विविधानि च तीर्थानिनियमायज्ञालिंगार्चाचैकतः स्मृता
कलौलिंगार्चनंश्रेष्ठंतथालोकेप्रदृश्यते तथानास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः
भुक्तिमुक्तिप्रदंलिंगं विविधापन्निवारणम् पूजयित्वानरोनित्यं शिवसायुज्यमाप्नुयात्
शिवानाममयं लिंगंनित्यं पूज्यं महर्षिभिः यतश्च सर्वलिंगेषु तस्मात्पूज्यंविधानतः
उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम्
चतुरंगुलमुच्छ्रायंरम्यंवेदिकयायुतम् उत्तमंलिंगमाख्यातंमुनिभिःशास्त्रकोविदैः
तदर्धंमध्यमंप्रोक्तंतदर्धमघमंस्मृतम् इत्थंत्रिविधमाख्यातमुत्तरोत्तरतःपरम्
अनेकलिंगंयोनित्यंभक्तिश्रद्धासमन्वितः पूजयेत्सलभेत्कामान्मनसा मानसेप्सितान्
नलिंगाराधनादन्यत्पुण्यंवेदचतुष्टये विद्यतेसर्वशास्त्राणामेष एवविनिश्चयः
सर्वमेतत्परित्यज्यकर्मजालमशेषतः भक्त्यापरमया विद्वांल्लिंगमेकंप्रपूजयेत्
लिंगेर्चितेर्चितंसर्वंजगत्स्थावरजंगमम् संसारांबुधिमग्नानांनान्यत्तारणसाधनम्
अज्ञानतिमिरांधानांविषयासक्तचेतसाम् प्लवोनान्योस्तिजगतिलिंगाराधनमंतरा
हरिब्रह्मादयोदेवामुनयोयक्षराक्षसाः गंधर्वाश्चरणास्सिद्धादैतेयादानवास्तथा
नागाःशेषप्रभृतयोगरुडाद्याःखगास्तथा सप्रजापतयश्चान्येमनवःकिन्नरानराः
पूजयित्वामहाभक्त्यालिंगंसर्वार्थसिद्धिदम् प्राप्ताःकामानभीष्टांश्चतांस्तान्सर्वान्हृदिस्थितान्
ब्राह्मणःक्षत्रियोवैश्यःशूद्रोवाप्रतिलोमजः पूजयेत्सततंलिंगंतत्तन्मंत्रेणसादरम्