अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं
अथ किं परमं साध्यं किंवा तत्साधनं परम् साधकः कीदृशस्तत्र तदिदं ब्रूहि तत्त्वतः
साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् साधकस्तत्प्रसादाद्यो ऽनित्यादिफलनिःस्पृहः
कर्म कृत्वा तु वेदोक्तं तदर्पितमहाफलम् परमेशपदप्राप्तः सालोक्यादिक्रमात्ततः
तत्तद्भक्त्यनुसारेण सर्वेषां परमं फलम् तत्साधनं बहुविधं साक्षादीशेन बोधितम्
संक्षिप्य तत्र वः सारं साधनं प्रब्रवीम्यहम् श्रोत्रेण श्रवणं तस्य वचसा कीर्तनं तथा
मनसा मननं तस्य महासाधनमुच्यते श्रोतव्यः कीर्तितव्यश्च मन्तव्यश्च महेश्वरः
इति श्रुतिप्रमाणं नः साधनेना ऽमुना परम् साध्यं व्रजत सर्वार्थसाधनैकपरायणाः
प्रत्यक्षं चक्षुषा दृष्ट्वा तत्र लोकः प्रवर्तते अप्रत्यक्षं हि सर्वत्र ज्ञात्वा श्रोत्रेण चेष्टते
तस्माच्छ्रवणमेवादौ श्रुत्वा गुरुमुखाद्बुधः ततः संसाधयेदन्यत्कीर्तनं मननं सुधीः
क्रमान्मननपर्यंते साधने ऽस्मिन्सुसाधिते शिवयोगो भवेत्तेन सालोक्यादिक्रमाच्छनैः
सर्वांगव्याधयः पश्चात्सर्वानंदश्च लीयते अभ्यासात्क्लेशमेतद्वै पश्चादाद्यंतमंगलम्
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम्
पूजाजपेशगुणरूपविलासनाम्नां युक्तिप्रियेण मनसा परिशोधनं यत् तत्संततं मननमीश्वरदृष्टिलभ्यं सर्वेषु साधनवरेष्वपि मुख्यमुख्यम्
गीतात्मना श्रुतिपदेन च भाषया वा शंभुप्रतापगुणरूपविलासनाम्नाम् वाचा स्फुटं तु रसवत्स्तवनं यदस्य तत्कीर्तनं भवति सा धनमत्र मध्यम्
येनापि केन करणेन च शब्दपुंजं यत्र क्वचिच्छिवपरं श्रवणेंद्रियेण स्त्रीकेलिवद्दृढतरं प्रणिधीयते यत्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम्
सत्संगमेन भवति श्रवणं पुरस्तात्संकीर्तनं पशुपतेरथ तद्दृढं स्यात् सर्वोत्तमं भवति तन्मननं तदंते सर्वं हि संभवति शंकरदृष्टिपाते
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः तपश्चचार संभ्रांतः सरस्वत्यास्तटे शुभे
गच्छन्यदृछया तत्र विमानेनार्करोचिषा सनत्कुमारो भगवान्ददर्श मम देशिकम्
ध्यानारूढः प्रबुद्धो ऽसौ ददर्श तमजात्मजम् प्रणिपत्याह संभ्रांतः परं कौतूहलं मुनिः
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टिरम् प्रसन्नः प्राह तं प्रह्वं प्रभुर्गंभीरया गिरा
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः स शिवोथासहायोत्र तपश्चरसि किं कृते
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः
बहुधा स्थापिता लोके मया त्वत्कृपया तथा एवं भुतस्य मेप्येवं गुरुभूतस्य सर्वतः
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्भुतम् तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम्
इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः समर्थः प्राह विप्रेंद्रा निश्चयं मुक्तिकारणम्
श्रवणं कीर्तनं शंभोर्मननं च महत्तरम् त्रयं साधनमुक्तं च विद्यते वेदसंमतम्
पुराहमथ संभ्रांतो ह्यन्यसाधनसंभ्रमः अचले मंदरे शैले तपश्चरणमाचरम्
शिवाज्ञया ततः प्राप्तो भगवान्नन्दिकेश्वरः स मे दयालुर्भगवान्सर्वसाक्षी गणेश्वरः