आयुरायोग्यदंचैवयशस्यंस्वर्ग्यमेवच पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम्
सम्यगुक्तंत्वयातातपार्थिवार्चाविधानकम्
कामनाभेदमाश्रित्यसंख्यांब्रूहिविधानतः शिवपार्थिवलिंगानां कृपयादीनवत्सल
शृणुध्वमृषयः सर्वेपार्थिवार्चाविधानकम् यस्यानुष्ठानमात्रेणकृतकृत्योभवेन्नरः
अकृत्वा पार्थिवं लिंगं योन्यदेवंप्रपूजयेत् वृथाभवतिसापूजादमदानादिकंवृथा
संख्यापार्थिवलिंगानांयथाकामंनिगद्यते संख्यासद्योमुनिश्रेष्ठनिश्चयेनफलप्रदा
प्रथमावाहनंतत्रप्रतिष्ठापूजनंपृथक् लिंगाकारंसमंतत्रसर्वंज्ञेयंपृथक्पृथक्
विद्यार्थीपुरुषःप्रीत्यासहस्रमितपार्थिवम् पूजयेच्छिवलिंगंहिनिश्चयात्तत्फलप्रदम्
नरःपार्थिवलिंगानांधनार्थीचतदर्धकम् पुत्रार्थीसार्धसाहस्रंवस्त्रार्थीशतपञ्चक्रम्
मोक्षार्थीकोटिगुणितंभूकामश्चसहस्रकम् दयार्थीचत्रिसाहस्रंतीर्थार्थीद्विसहस्रकम्
सुहृत्कामीत्रिसाहस्रंवश्यार्थीशतमष्टकम् मारणार्थीसप्तशतंमोहनार्थीशताष्टकम्
उच्चाटनपरश्चैवसहस्रंचयथोक्ततः स्तंभनार्थीसहस्रंतुद्वेषणार्थी तदर्धकम्
निगडान्मुक्तिकामस्तुसहस्रंसर्धमुत्तमम् महाराजभयेपञ्चशतंज्ञेयंविचक्षणैः
चौरादिसंकटेज्ञेयंपार्थिवानांशतद्वयम् डाकिन्यादिभयेपञ्चशतमुक्तंजपार्थिवम्
दारिद्र्येपञ्चसाहस्रमयुतंसर्वकामदम् अथनित्यविधिंवक्ष्येशृणुध्वंमुनिसत्तमाः
एकंपापहरंप्रोक्तंद्विलिंगंचार्थसिद्धिदम् त्रिलिंगंसर्वकामानांकारणंपरमीरितम्
उत्तरोत्तरमेवंस्यात्पूर्वोक्तगणानाविधि मतांतरमथोवक्ष्येसंख्यायांमुनिभेदतः
लिंगानामयुतंकृत्वापार्थिवानांसुबुद्धिमान् निर्भयोहिभवेन्नूनंमहाराजभयंहरेत्
कारागृहादिमुक्त्यर्थमयुतंकारयेद्बुधः डाकिन्यादिभयेसप्तसहस्रंकारयेत्तथा
सहस्राणिपञ्चपञ्चाशदपुत्रःप्रकारयेत् लिंगानामयुतेनैवकन्यकासंततिंलभेत्
लिंगानामयुतेनैवविष्ण्वादैश्वर्यमाप्नुयात् लिंगानांप्रयुतेनैवह्यतुलांश्रियमाप्नुयात्
कोटिमेकांतुलिंगानां यः करोतिनरोभुवि शिव एवभवेत्सोपिनात्रकार्या विचारणा
अर्चा पार्थिवलिंगानां कोटियज्ञफलप्रदा भुक्तिदामुक्तिदानित्यंततःकामर्थिनांनृणाम्
विनालिंगार्चनं यस्य कालोगच्छति नित्यशः महाहानिर्भवेत्तस्यदुर्वृत्तस्यदुरात्मनः
एकतः सर्वदानानि व्रतानि विविधानि च तीर्थानिनियमायज्ञालिंगार्चाचैकतः स्मृता
कलौलिंगार्चनंश्रेष्ठंतथालोकेप्रदृश्यते तथानास्तीति शास्त्राणामेष सिद्धान्तनिश्चयः
भुक्तिमुक्तिप्रदंलिंगं विविधापन्निवारणम् पूजयित्वानरोनित्यं शिवसायुज्यमाप्नुयात्
शिवानाममयं लिंगंनित्यं पूज्यं महर्षिभिः यतश्च सर्वलिंगेषु तस्मात्पूज्यंविधानतः
उत्तमं मध्यमं नीचं त्रिविधं लिंगमीरितम् मानतो मुनिशार्दूलास्तच्छृणुध्वं वदाम्यहम्
चतुरंगुलमुच्छ्रायंरम्यंवेदिकयायुतम् उत्तमंलिंगमाख्यातंमुनिभिःशास्त्रकोविदैः