पञ्चमुद्राःप्रदर्श्याथ शिवमंत्रजपं चरेत् शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः
ततः पञ्चाङ्गपाठंचकुर्याद्वेदविचक्षणः देवागात्वितिमंत्रेणकुर्याच्छंभोर्विसर्जनम्
इत्युक्तः शिवपूजायाव्यासतोवैदिकोविधिः समासतश्चशृणुतवैदिकंविधिमुत्तमम्
ऋचासद्योजातमितिमृदाहरणमाचरेत् वामदेवाय इति च जलप्रक्षेपमाचरेत्
अघोरेण च मंत्रेणलिंगनिर्माणमाचरेत् तत्पुरुषायमंत्रेणाह्वानं कुर्याद्यथाविधि
संयोजयेद्वेदिकायामीशानमनुनाहरम् अन्यत्सर्वं विधानंचकुर्यात्संक्षेपतः सुधीः
पञ्चाक्षरेणमंत्रेणगुरुदत्तेनवातथा कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः
भवायभवनाशायमहादेवायधीमहि उग्राय उग्रनाशाय शर्वाय शशिमौलिने
अनेन मनुना वापि पूजयेच्छंकरंसुधीः सुभक्त्या चभ्रमंत्यक्त्वाभक्त्यैवफलदः शिवः
इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् प्रोच्यतेन्यविधिः सम्यक्साधारणतयाद्विजः
पूजापार्थिवलिंगस्यसंप्रोक्ताशिवनामभिः
हरोमहेश्वरः शंभुःशूलपाणिः पिनाकधृक् शिवः पशुपतिश्चैवमहादेव इति क्रमात्
मृदाहरणसंघट्टप्रतिष्ठाह्वानमेवच स्नपनंपूजनंचैवक्षमस्वेतिविसर्जनम्
अंकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् कर्तव्याचक्रियासर्वाभक्त्यापरमयामुदा
कृत्वा न्यासविधिंसम्यक्षडङ्गकरयोस्तथा षडक्षरेणमंत्रेणततोध्यानंसमाचरेत्
कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् भक्तर्तिदावानलमप्रमेयंध्यायेदुमालिंगितविश्वभूषणम्
ध्यायेन्नित्यंमहेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तंप्रसन्नम् पद्मासीनंसमंतात्स्थितममरगणैर्व्याघ्रकृत्तिंवसानंविश्वाद्यंविश्वबीजंनिखिलभयहरंपञ्चवक्त्रंत्रिनेत्रम्
इतिध्यात्वाचसंपूज्यपार्थिवंलिंगमुत्तमम् जपेत्पञ्चाक्षरंमंत्रंगुरुदत्तंयथाविधि
स्तुतिभिश्चैवदेवेशंस्तुवीतप्रणमन्सुधीः नानाभिधाभिर्विप्रेन्द्राः पठेद्वैशतरुद्रियम्
ततः साक्षतपुष्पाणिगृहीत्वांजलिनामुदा प्रार्थयेच्छंकरंभक्त्यामंत्रैरेभिःसुभक्तितः
तावकस्त्वद्गुणप्राणस्त्वच्चित्तोहंसदामृड कृपानिध इतिज्ञात्वाभूतनाथप्रसीदमे
अज्ञानाद्यदिवाज्ञानाज्जप पूजादिकं मया कृतं तदस्तुसफलंकृपयातवशंकर
अहंपापीमहानद्यपावनश्चभवान्महान् इतिविज्ञायगौरीशयदिच्छसितथाकुरु
वेदैः पुराणैः सिद्धान्तैरृषिभिर्विविधैरपि नज्ञातोसिमहादेवकुतोहंत्वंमहाशिव
यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर
इत्येवं चाक्षतान्पुष्पानारोप्य च शिवोपरि प्रणमेद्भक्तितश्शंभुं साष्टांगं विधिवन्मुने
ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः
ततो गलरवंकृत्वा प्रणमेच्छुचिनम्रधीः कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत्
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः भुक्तिदामुक्तिदाचैवशिवभक्तिविवर्धिनी
इत्यध्यायंसुचित्तेनयःपठेच्छृणुयादपि सर्वपापविशुद्धात्मासर्वान्कामानवाप्नुयात्