नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम्
नमःकपर्दिनेचेति धूपं दद्याद्यथाविधि दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा
नमोज्येष्ठायमंत्रेण दद्यान्नैवेद्यमुत्तमम् मनुनात्र्यम्बकमितिपुनराचमनंस्मृतम्
इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत्
मनो महांतमिति च मानस्तोके इति ततः मंत्रेद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत्
हिरण्यगर्भ इति त्र्यृचादक्षिणांहिसमर्पयेत् देवस्यत्वेतिमंत्रेणह्यभिषेकंचरेद्बुधः
दीपमंत्रेणवाशंभोर्नीराजनविधिंचरेत् पुष्पांजलिंचरेद्भक्त्या इमा रुद्रायचत्र्यृचा
मानोमहान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् मानस्तोकेति मंत्रेण साष्टाङ्गंप्रणमेत्सुधीः
यतोयत इत्यभयांज्ञानाख्यां त्र्यंबकेण च
नमःसेनेति मंत्रेणमहामुद्रांप्रदर्शयेत् दर्शयेद्धेनुमुद्रांचनमोगेभ्य ऋचानया
पञ्चमुद्राःप्रदर्श्याथ शिवमंत्रजपं चरेत् शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः
ततः पञ्चाङ्गपाठंचकुर्याद्वेदविचक्षणः देवागात्वितिमंत्रेणकुर्याच्छंभोर्विसर्जनम्
इत्युक्तः शिवपूजायाव्यासतोवैदिकोविधिः समासतश्चशृणुतवैदिकंविधिमुत्तमम्
ऋचासद्योजातमितिमृदाहरणमाचरेत् वामदेवाय इति च जलप्रक्षेपमाचरेत्
अघोरेण च मंत्रेणलिंगनिर्माणमाचरेत् तत्पुरुषायमंत्रेणाह्वानं कुर्याद्यथाविधि
संयोजयेद्वेदिकायामीशानमनुनाहरम् अन्यत्सर्वं विधानंचकुर्यात्संक्षेपतः सुधीः
पञ्चाक्षरेणमंत्रेणगुरुदत्तेनवातथा कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः
भवायभवनाशायमहादेवायधीमहि उग्राय उग्रनाशाय शर्वाय शशिमौलिने
अनेन मनुना वापि पूजयेच्छंकरंसुधीः सुभक्त्या चभ्रमंत्यक्त्वाभक्त्यैवफलदः शिवः
इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् प्रोच्यतेन्यविधिः सम्यक्साधारणतयाद्विजः
पूजापार्थिवलिंगस्यसंप्रोक्ताशिवनामभिः
हरोमहेश्वरः शंभुःशूलपाणिः पिनाकधृक् शिवः पशुपतिश्चैवमहादेव इति क्रमात्
मृदाहरणसंघट्टप्रतिष्ठाह्वानमेवच स्नपनंपूजनंचैवक्षमस्वेतिविसर्जनम्
अंकारादिचतुर्थ्यंतैर्नमोन्तैर्नामभिः क्रमात् कर्तव्याचक्रियासर्वाभक्त्यापरमयामुदा
कृत्वा न्यासविधिंसम्यक्षडङ्गकरयोस्तथा षडक्षरेणमंत्रेणततोध्यानंसमाचरेत्
कैलासपीठासनमध्यसंस्थं भक्तैः सनंदादिभिरर्च्यमानम् भक्तर्तिदावानलमप्रमेयंध्यायेदुमालिंगितविश्वभूषणम्
ध्यायेन्नित्यंमहेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तंप्रसन्नम् पद्मासीनंसमंतात्स्थितममरगणैर्व्याघ्रकृत्तिंवसानंविश्वाद्यंविश्वबीजंनिखिलभयहरंपञ्चवक्त्रंत्रिनेत्रम्
इतिध्यात्वाचसंपूज्यपार्थिवंलिंगमुत्तमम् जपेत्पञ्चाक्षरंमंत्रंगुरुदत्तंयथाविधि
स्तुतिभिश्चैवदेवेशंस्तुवीतप्रणमन्सुधीः नानाभिधाभिर्विप्रेन्द्राः पठेद्वैशतरुद्रियम्
ततः साक्षतपुष्पाणिगृहीत्वांजलिनामुदा प्रार्थयेच्छंकरंभक्त्यामंत्रैरेभिःसुभक्तितः