भक्तितस्तत एतत्तेरुद्रायेति च मंत्रतः आसनं रमणीयं वैदद्याद्वैदिकमार्गकृत्
मानोमहन्तमितिचमंत्रेणावाहनंचरेत् यातेरुद्रेणमंत्रेणसंचरेदुपवेशनम्
मंत्रेणयामिषुमिति न्यासंकुर्याच्छिवस्यच अध्यवोचदिति प्रेम्णाधिवासंमनुनाचरेत्
मनुनासौजीव इतिदेवतान्यासमाचरेत् असौयोवसर्पतीति चाचरेदपसर्पणम्
अर्घ्यं च रुद्रगायत्र्या ऽचमनं त्र्यंबकेण च
पयःपृथिव्यामिति च पयसास्नानमाचरेत् दधिक्राव्णेतिमंत्रेणदधिस्नानं च कारयेत्
मधुखंडस्नपनंप्रोक्तमितिपञ्चामृतं स्मृतम् अथवा पाद्यमंत्रेण स्नानंपञ्चामृतेन च
मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् नमो धृष्णवे इति वा उत्तरीयं च धापयेत्
या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम्
नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः
नमः पार्याय इति वा पुष्प मंत्रेण चार्पयेत् नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम्
नमःकपर्दिनेचेति धूपं दद्याद्यथाविधि दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा
नमोज्येष्ठायमंत्रेण दद्यान्नैवेद्यमुत्तमम् मनुनात्र्यम्बकमितिपुनराचमनंस्मृतम्
इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् नमो व्रज्यायेति ऋचा सकलं शंभवेर्पयेत्
मनो महांतमिति च मानस्तोके इति ततः मंत्रेद्वयेनैकदशाक्षतै रुद्रान्प्रपूजयेत्
हिरण्यगर्भ इति त्र्यृचादक्षिणांहिसमर्पयेत् देवस्यत्वेतिमंत्रेणह्यभिषेकंचरेद्बुधः
दीपमंत्रेणवाशंभोर्नीराजनविधिंचरेत् पुष्पांजलिंचरेद्भक्त्या इमा रुद्रायचत्र्यृचा
मानोमहान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् मानस्तोकेति मंत्रेण साष्टाङ्गंप्रणमेत्सुधीः
यतोयत इत्यभयांज्ञानाख्यां त्र्यंबकेण च
नमःसेनेति मंत्रेणमहामुद्रांप्रदर्शयेत् दर्शयेद्धेनुमुद्रांचनमोगेभ्य ऋचानया
पञ्चमुद्राःप्रदर्श्याथ शिवमंत्रजपं चरेत् शतरुद्रियमंत्रेण जपेद्वेदविचक्षणः
ततः पञ्चाङ्गपाठंचकुर्याद्वेदविचक्षणः देवागात्वितिमंत्रेणकुर्याच्छंभोर्विसर्जनम्
इत्युक्तः शिवपूजायाव्यासतोवैदिकोविधिः समासतश्चशृणुतवैदिकंविधिमुत्तमम्
ऋचासद्योजातमितिमृदाहरणमाचरेत् वामदेवाय इति च जलप्रक्षेपमाचरेत्
अघोरेण च मंत्रेणलिंगनिर्माणमाचरेत् तत्पुरुषायमंत्रेणाह्वानं कुर्याद्यथाविधि
संयोजयेद्वेदिकायामीशानमनुनाहरम् अन्यत्सर्वं विधानंचकुर्यात्संक्षेपतः सुधीः
पञ्चाक्षरेणमंत्रेणगुरुदत्तेनवातथा कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः
भवायभवनाशायमहादेवायधीमहि उग्राय उग्रनाशाय शर्वाय शशिमौलिने
अनेन मनुना वापि पूजयेच्छंकरंसुधीः सुभक्त्या चभ्रमंत्यक्त्वाभक्त्यैवफलदः शिवः
इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् प्रोच्यतेन्यविधिः सम्यक्साधारणतयाद्विजः