द्विखंडंस्थावरंलिंगंकर्तव्यंहिविधानतः अखंडंजंगमंप्रोक्तंशैवसिद्धान्तवेदिभिः
द्विखंडंतुचरांलिंगंकुर्वन्त्यज्ञानमोहिताः नैवसिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः
अखंडंस्थावरंलिंगंद्विखंडंचरमेवच येकुर्वन्तिनरामूढानपूजाफलभागिनः
तस्माच्छास्त्रोक्तविधिना अखंडंचरसंज्ञकम् द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा
अखंडे तु चरे पूजासम्पूर्णफलदायिनी द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता
अखंडे स्थावरे पूजा न कामफलदायिनी प्रत्यवायकरीनित्यमित्युक्तंशास्त्रवेदिभिः
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते वैदिकेनैवमार्गेणभुक्तिमुक्तिप्रदायिनी
सूत्रोक्तविधिनास्नात्वासंध्यां कृत्वा यथाविधि ब्रह्मयज्ञंविधायादौततस्तर्पणमाचरेत्
शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः
वेदोक्ताविधिना सम्यक्संपूर्णफलसिद्धये पूजयेत्परयाभक्त्यापार्थिवंलिंगमुत्तमम्
नदीतीरे तडागे च पर्वतेकानने ऽपिच शिवालये शुचौ देशे पार्थिवार्चा विधीयते
शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः शिवलिंगं प्रकल्पेत सावधानतया द्विजाः
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका वैश्येकृष्णा पादजाते ह्यथवा यत्र या भवेत्
संगृह्यमृत्तिकांलिंगनिर्माणार्थंप्रयत्नतः अतीवशुभदेशेचस्थापयेत्तांमृदंशुभाम्
संशोध्यचजलेनापिपिंडीकृत्य शनैः शनैः विधीयेतशुभंलिंगंपार्थिवंवेदमार्गतः
ततः संपूजयेद्भक्त्याभुक्तिमुक्तिफलाप्तये तत्प्रकारमहंवच्मिशृणुध्वंसंविधानतः
नमः शिवायमंत्रेणार्चनंद्रव्यंचप्रोक्षयेत् भूरसीतिचमंत्रेणक्षेत्रसिद्धिंप्रकारयेत्
आपोस्मानितिमंत्रेणजलसंस्कारमाचरेत् नमस्ते रुद्रमंत्रेण फाटिकाबंधमुच्यते
शंभवायेतिमंत्रेणक्षेत्रशुद्धिं प्रकारयेत् नमः पूर्वेण कुर्यात्पञ्चामृतस्यापि प्रोक्षणम्
नीलग्रीवायमंत्रेणनमःपूर्वेणभक्तिमान् चरेच्छंकरलिंगस्यप्रतिष्ठापनमुत्तमम्
भक्तितस्तत एतत्तेरुद्रायेति च मंत्रतः आसनं रमणीयं वैदद्याद्वैदिकमार्गकृत्
मानोमहन्तमितिचमंत्रेणावाहनंचरेत् यातेरुद्रेणमंत्रेणसंचरेदुपवेशनम्
मंत्रेणयामिषुमिति न्यासंकुर्याच्छिवस्यच अध्यवोचदिति प्रेम्णाधिवासंमनुनाचरेत्
मनुनासौजीव इतिदेवतान्यासमाचरेत् असौयोवसर्पतीति चाचरेदपसर्पणम्
अर्घ्यं च रुद्रगायत्र्या ऽचमनं त्र्यंबकेण च
पयःपृथिव्यामिति च पयसास्नानमाचरेत् दधिक्राव्णेतिमंत्रेणदधिस्नानं च कारयेत्
मधुखंडस्नपनंप्रोक्तमितिपञ्चामृतं स्मृतम् अथवा पाद्यमंत्रेण स्नानंपञ्चामृतेन च
मानस्तोके इति प्रेम्णा मंत्रेण कटिबंधनम् नमो धृष्णवे इति वा उत्तरीयं च धापयेत्
या ते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम्
नमः श्वभ्य इति प्रेम्णा गंधं दद्यादृचा सुधीः