यत्रपार्थिवमाहेशलिंगस्यमहिमाधुना सर्वोत्कृष्टश्चकथितोव्यासतोब्रूहितंपुनः
शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः शिवपार्थिवलिंगस्यमहिमाप्रोच्यतेमया
उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् तस्यपूजनतोविप्राबहवः सिद्धिमागताः
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा संपूज्य पार्थिवंलिंगंप्रापुःसर्वेप्सितंद्विजाः
देवासुरमनुष्याश्चगंधर्वोरगराक्षसाः अन्येपिबहवस्तंसंपूज्यसिद्धिंगताःपरम्
कृतेरत्नमयंलिंगंत्रेतायांहेमसंभवम् द्वापरेपारदंश्रेष्ठंपार्थिवंतुकलौयुगे
अष्टमूर्तिषुसर्वासुमूर्तिर्वैपार्थिवीवराः अनन्यपूजिताविप्रास्तपस्तस्मान्महत्फलम्
यथासर्वेषुदेवेषुज्येष्ठःश्रेष्ठोमहेश्वरः एवंसर्वेषु लिंगेषुपार्थिवंश्रेष्टमुच्यते
यथानदीषुसर्वासुज्येष्ठाश्रेष्ठासुरापगा तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते
यथासर्वेषुमंत्रेषुप्रणवो हि महान्स्मृतः तथेदंपार्थिवंश्रेष्ठमाराध्यंपूज्यमेवहि
यथासर्वेषुवर्णेषुब्राह्मणःश्रेष्ठ उच्यते तथासर्वेषुलिंगेषुपार्थिवं श्रेष्ठमुच्यते
यथापुरीषुसर्वासुकाशीश्रेष्ठतमास्मृता तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते
यथाव्रतेषुसर्वेषुशिवरात्रिव्रतंपरम् तथासर्वेषुलिंगेषुपार्थिवंश्रेष्थमुच्यते
यथादेवीषुसर्वासुशैवीशक्तिः परास्मृता तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते
प्रकृत्यपार्थिवंलिंगंयोन्यदेवंप्रपूजयेत् वृथा भवति सा पूजा स्नानदानादिकंवृथा
पार्थिवाराधनंपुण्यंधन्यमायुर्विवर्धनम् तुष्टिदंपुष्टिदंश्रीदंकार्यंसाधकसत्तमैः
यथालब्धोपचारैश्चभक्त्या श्रद्धासमन्वितः पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम्
यःकृत्वापार्थिवंलिंगेपूजयेच्छुभवेदिकम् इहैवधनवाञ्छ्रीमानंतेरुद्रोभिजायते
त्रिसंध्यंयोर्चयंल्लिंगंकृत्वाबिल्वेनपार्थिवम् दशैकादशकंयावत्तस्यपुण्यफलंशृणु
अनेनैव स्वदेहेन रुद्रलोकेमहीयते पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि
जीवन्मुक्तः सवैज्ञानीशिव एव न संशयः तस्यदर्शनमात्रेणभुक्तिर्मुक्तिश्च जायते
शिवं यः पूजयेन्नित्यं कृत्वालिंगं तु पार्थिवम् यावज्जीवनपर्यंतं स याति शिवमन्दिरम्
मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति सकामः पुनरागत्य राजेन्द्रोभारतेभवेत्
निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात्
पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् सयातिनरकंघोरंशूलप्रोतं सुदारुणम्
यथाकथंचिद्विधिनारम्यं लिंगं प्रकारयेत् पञ्चसूत्रविधानां च पार्थिवेन विचारयेत्
अखण्डंतद्धिकर्तव्यंनविखण्डंप्रकारयेत् द्विखण्डंतुप्रकुर्वाणोनैवपूजाफलंलभेत्
रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत्
अखंडं तु चरं लिंगंद्विखंडमचरं स्मृतम् खंडाखंडविचारोयं सचराचरयोः स्मृतः
वेदिकातुमहाविद्यालिंगंदेवो महेश्वरः अतो हि स्थावरेलिंगे स्मृताश्रेष्ठादिखंडिता