न्यायार्जितसुवित्तेनवसेत्प्राज्ञः शिवस्थले जीवहिंसादिरहितमतिक्लेशविवर्जितम्
पञ्चाक्षरेणजप्तंचतोयमन्नंविदुः सुखम् अथवा ऽहुर्दरिद्रस्यभिक्षान्नंज्ञानदंभवेत्
शिवभक्तस्यभिक्षान्नंशिवभक्तिविवर्धनम् शंभुसत्रमितिप्राहुर्भिक्षान्नंशिवयोगिनः
येनकेनाप्युपायेनयत्रकुत्रापिभूतले शुद्धान्नभुक्सदामौनीरहस्यं न प्रकाशयेत्
प्रकाशयेत्तुभक्तानांशिवमाहात्म्यमेवहि रहस्यंशिवमंत्रस्यशिवोजानातिनापरः
शिवभक्तोवसेन्नित्यंशिवलिंगंसमाश्रितः स्थाणुलिंगाश्रयेणैवस्थाणुर्भवतिभूसुराः
पूजयाचरलिंगस्यक्रमान्मुक्तोभवेद्ध्रुवम् सर्वमुक्तंसमासेनसाध्यसाधनमुत्तमम्
व्यासेनयत्पुराप्रोक्तंयच्छ्रुतंहिमयापुरा भद्रमस्तुहिवो ऽस्माकं शिवभक्तिर्दृढा ऽस्तुसा
य इमंपठते ऽध्यायं यः शृणोति नरः सदा शिवज्ञानंसलभतेशिवस्यकृपयाबुधाः
सूतसूतचिरंजीवधन्यस्त्वंशिवभक्तिमान् सम्यगुक्तस्त्वयालिंगमहिमासत्फलप्रदः
यत्रपार्थिवमाहेशलिंगस्यमहिमाधुना सर्वोत्कृष्टश्चकथितोव्यासतोब्रूहितंपुनः
शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः शिवपार्थिवलिंगस्यमहिमाप्रोच्यतेमया
उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् तस्यपूजनतोविप्राबहवः सिद्धिमागताः
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा संपूज्य पार्थिवंलिंगंप्रापुःसर्वेप्सितंद्विजाः
देवासुरमनुष्याश्चगंधर्वोरगराक्षसाः अन्येपिबहवस्तंसंपूज्यसिद्धिंगताःपरम्
कृतेरत्नमयंलिंगंत्रेतायांहेमसंभवम् द्वापरेपारदंश्रेष्ठंपार्थिवंतुकलौयुगे
अष्टमूर्तिषुसर्वासुमूर्तिर्वैपार्थिवीवराः अनन्यपूजिताविप्रास्तपस्तस्मान्महत्फलम्
यथासर्वेषुदेवेषुज्येष्ठःश्रेष्ठोमहेश्वरः एवंसर्वेषु लिंगेषुपार्थिवंश्रेष्टमुच्यते
यथानदीषुसर्वासुज्येष्ठाश्रेष्ठासुरापगा तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते
यथासर्वेषुमंत्रेषुप्रणवो हि महान्स्मृतः तथेदंपार्थिवंश्रेष्ठमाराध्यंपूज्यमेवहि
यथासर्वेषुवर्णेषुब्राह्मणःश्रेष्ठ उच्यते तथासर्वेषुलिंगेषुपार्थिवं श्रेष्ठमुच्यते
यथापुरीषुसर्वासुकाशीश्रेष्ठतमास्मृता तथासर्वेषुलिंगेषुपार्थिवंश्रेष्ठमुच्यते
यथाव्रतेषुसर्वेषुशिवरात्रिव्रतंपरम् तथासर्वेषुलिंगेषुपार्थिवंश्रेष्थमुच्यते
यथादेवीषुसर्वासुशैवीशक्तिः परास्मृता तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते
प्रकृत्यपार्थिवंलिंगंयोन्यदेवंप्रपूजयेत् वृथा भवति सा पूजा स्नानदानादिकंवृथा
पार्थिवाराधनंपुण्यंधन्यमायुर्विवर्धनम् तुष्टिदंपुष्टिदंश्रीदंकार्यंसाधकसत्तमैः
यथालब्धोपचारैश्चभक्त्या श्रद्धासमन्वितः पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम्
यःकृत्वापार्थिवंलिंगेपूजयेच्छुभवेदिकम् इहैवधनवाञ्छ्रीमानंतेरुद्रोभिजायते
त्रिसंध्यंयोर्चयंल्लिंगंकृत्वाबिल्वेनपार्थिवम् दशैकादशकंयावत्तस्यपुण्यफलंशृणु
अनेनैव स्वदेहेन रुद्रलोकेमहीयते पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि