शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम्
तत्स्वर्णप्रतिमादानंकुर्याद्दक्षिणयासह तिलदानंततःकुर्यात्पूर्णायुष्यप्रसिद्धये
आज्यावेक्षणदानंचकुर्याद्व्याधिनिवृत्तये सहस्रंभोजयेद्विप्रान्दरिद्रःशतमेववा
वित्ताभावेदरिद्रस्तुयथाशक्तिसमाचरेत् भैरवस्यमहापूजांकुर्याद्भूतादिशांतये
महाभिषेकंनैवेद्यंशिवस्यान्तेतुकारयेत् ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः
एवंकृतेनयज्ञेनदोषशांतिमवाप्नुयात् शांतियज्ञमिमंकुर्याद्वर्षेवर्षेतुफाल्गुने
दुर्दर्शनादौ सद्यो वै मासमात्रेसमाचरेत् महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम्
महाव्याधिसमुत्पत्तौसंकल्पंपुनराचरेत् सर्वभावे दरिद्रस्तु दीपदानमथाचरेत्
तदप्यशक्तः स्नात्वावैयत्किंचिद्दानमाचरेत् दिवाकरंनमस्कुर्यान्मन्त्रेणाष्टोत्तरंशतम्
सहस्रमयुतंलक्षंकोटिंवाकारयेद् बुधः नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः
त्वत्स्वरूपेर्पिताबुद्धिर्नते ऽशून्ये च रोचति या चास्त्यस्मदहंतेति त्वयिदृष्टे विवर्जिता
नम्रो ऽहंहिस्वदेहेनभोमहांस्त्वमसिप्रभो नशून्योमत्स्वरूपोवैतवदासो ऽस्मिसांप्रतम्
यथायोग्यंस्वात्मयज्ञंनमस्कारंप्रकल्पयेत् अथात्रशिवनैवेद्यंदत्त्वातांबूलमाहरेत्
शिवप्रदक्षिणंकुर्यात्स्वयमष्टोत्तरं शतम् सहस्रमयुतंलक्षं कोटिमन्येन कारयेत्
शिवप्रदक्षिणात्सर्वंपातकंनश्यतिक्षणात् दुःखस्यमूलंव्याधिर्हिव्याधेर्मूलंहिपातकम्
धर्मेणैवहिपापानामपनोदनमीरितम् शिवोद्देशकृतोधर्मःक्षमःपापविनोदने
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् क्रियया जपरूपंहिप्रणवंतुप्रदक्षिणम्
जननंमरणंद्वंद्वंमायाचक्रमितीरितम् शिवस्यमायाचक्रंहिबलिपीठंतदुच्यते
बलिपीठंसमारभ्यप्रादक्षिण्यक्रमेणवै पदेपदांतरंगत्वाबलिपीठं समाविशेत्
नमस्कारंततः कुर्यात्प्रदक्षिणमितीरितम् निर्गमाज्जननंप्राप्तंनमस्त्वात्मसमर्पणम्
जननं मरणं द्वंद्वं शिवमायासमर्पितम् शिवमायार्पितद्वंद्वो न पुनस्त्वात्मभाग्भवेत्
यावद्देहंक्रियाधीनःसजीवोबद्ध उच्यते देहत्रयवशीकारेमोक्ष इत्युच्यते बुधैः
मायाचक्रप्रणेताहिशिवः परमकारणम् शिवमायार्पितद्वंद्वंशिवस्तुपरिमार्जति
शिवेनकल्पितंद्वंद्वंतस्मिन्नेव समर्पयेत् शिवस्यातिप्रियंविद्यात्प्रदक्षिणंनमोबुधाः
प्रदक्षिणनमस्काराः शिवस्यपरमात्मनः षोडशैरुपचारैश्चकृतपूजाफलप्रदा
प्रदक्षिणा ऽविनाश्यंहि पातकंनास्ति भूतले तस्मात्प्रदक्षिणेनैवसर्वपापंविनाशयेत्
शिवपूजापरोमौनीसत्यादिगुणसंयुतः क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत्
ऐश्वर्यंदिव्यदेहश्चज्ञानमज्ञानसंशयः शिवसान्निध्यमित्येतेक्रियादीनांफलंभवेत्
करणेनफलंयातितमसः परिहापनात् जन्मनःपरिमार्जित्वाज्ज्ञबुद्ध्याजनितानिच
यथादेशं यथाकालं यथादेहं यथाधनम् यथायोग्यंप्रकुर्वीत क्रियादीञ्छिवभक्तिमान्