आवाहनादिकंसर्वमाचार्येणैवकारयेत् आचार्य ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम्
कुंभस्य पश्चिमे भागेजपांतेहोममाचरेत् कोटिंलक्षंसहस्रंवाशतमष्टोत्तरं बुधाः
एकाहंवानवाहंवातथामंडलमेव वा यथायोग्यंप्रकुर्वीतकालदेशानुसारतः
शमीहोमश्च शांत्यर्थे वृत्त्यर्थेचपलाशकम् समिदन्नाज्यकैर्द्रव्यैर्नाम्नामंत्रेण वा हुनेत्
प्रारंभेयत्कृतंद्रव्यंतत्क्रियांतंसमाचरेत् पुण्याहंवाचयित्वांते दिनेसंप्रोक्ष्ययेज्जलैः
ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया आचार्यश्चहविष्याशीत्विजश्चभवेद्बुधाः
आदित्यादीन्ग्रहानिष्ट्वासर्वहोमांत एवहि ऋत्विभ्योदक्षिणांदद्यान्नवरत्नंयथा क्रमम्
दशदानंततःकुर्याद्भूरिदानंततः परम् बालानामुपनीतानांगृहिणांवनिनांधनम्
कन्यानांचसभर्त्ःणांविधवानांततःपरम् तंत्रोपकरणंसर्वमाचार्यायनिवेदयेत्
उत्पातानांचमारीणांदुःखस्वामीयमःस्मृतः तस्माद्यमस्यप्रीत्यर्थंकालदानंप्रदापयेत्
शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः पाशांकुशधरं कालं कुर्यात्पुरुषरूपिणम्
तत्स्वर्णप्रतिमादानंकुर्याद्दक्षिणयासह तिलदानंततःकुर्यात्पूर्णायुष्यप्रसिद्धये
आज्यावेक्षणदानंचकुर्याद्व्याधिनिवृत्तये सहस्रंभोजयेद्विप्रान्दरिद्रःशतमेववा
वित्ताभावेदरिद्रस्तुयथाशक्तिसमाचरेत् भैरवस्यमहापूजांकुर्याद्भूतादिशांतये
महाभिषेकंनैवेद्यंशिवस्यान्तेतुकारयेत् ब्राह्मणान्भोजयेत्पश्चाद्भूरिभोजनरूपतः
एवंकृतेनयज्ञेनदोषशांतिमवाप्नुयात् शांतियज्ञमिमंकुर्याद्वर्षेवर्षेतुफाल्गुने
दुर्दर्शनादौ सद्यो वै मासमात्रेसमाचरेत् महापापादिसंप्राप्तौ कुर्याद्भैरवपूजनम्
महाव्याधिसमुत्पत्तौसंकल्पंपुनराचरेत् सर्वभावे दरिद्रस्तु दीपदानमथाचरेत्
तदप्यशक्तः स्नात्वावैयत्किंचिद्दानमाचरेत् दिवाकरंनमस्कुर्यान्मन्त्रेणाष्टोत्तरंशतम्
सहस्रमयुतंलक्षंकोटिंवाकारयेद् बुधः नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः
त्वत्स्वरूपेर्पिताबुद्धिर्नते ऽशून्ये च रोचति या चास्त्यस्मदहंतेति त्वयिदृष्टे विवर्जिता
नम्रो ऽहंहिस्वदेहेनभोमहांस्त्वमसिप्रभो नशून्योमत्स्वरूपोवैतवदासो ऽस्मिसांप्रतम्
यथायोग्यंस्वात्मयज्ञंनमस्कारंप्रकल्पयेत् अथात्रशिवनैवेद्यंदत्त्वातांबूलमाहरेत्
शिवप्रदक्षिणंकुर्यात्स्वयमष्टोत्तरं शतम् सहस्रमयुतंलक्षं कोटिमन्येन कारयेत्
शिवप्रदक्षिणात्सर्वंपातकंनश्यतिक्षणात् दुःखस्यमूलंव्याधिर्हिव्याधेर्मूलंहिपातकम्
धर्मेणैवहिपापानामपनोदनमीरितम् शिवोद्देशकृतोधर्मःक्षमःपापविनोदने
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् क्रियया जपरूपंहिप्रणवंतुप्रदक्षिणम्
जननंमरणंद्वंद्वंमायाचक्रमितीरितम् शिवस्यमायाचक्रंहिबलिपीठंतदुच्यते
बलिपीठंसमारभ्यप्रादक्षिण्यक्रमेणवै पदेपदांतरंगत्वाबलिपीठं समाविशेत्
नमस्कारंततः कुर्यात्प्रदक्षिणमितीरितम् निर्गमाज्जननंप्राप्तंनमस्त्वात्मसमर्पणम्