सविकारान्राजसादीन्गुणान्रुंधेव्यपोहति गुणातीतः परशिवोगुरुरूपंसमाश्रितः
गुणत्रयंव्यपोह्याग्रेशिवंबोधयतीतिसः विश्वस्तानांतुशिष्याणांगुरुरित्यभिधीयते
तस्माद्गुरुशरीरंतुगुरुलिंगंभवेद्बुधः गुरुलिंगस्यपूजातुगुरुशुश्रूषणं भवेत्
श्रुतंकरोतिशुश्रूषाकायेनमनसागिरा उक्तं यद्गुरुणापूर्वं शक्यंवा ऽशक्यमेववा
करोत्येवहिपूतात्माप्राणैरपिधनैरपि तस्माद्वैशासनेयोग्यः शिष्य इत्यभिधीयते
शरीराद्यर्थकंसर्वंगुरोर्दत्त्वासुशिष्यकः अग्रपाकंनिवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया
शिष्यःपुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः जिह्वालिंगान्मंत्रशुक्रंकर्णयोनौनिषिच्यवै
जातःपुत्रोमंत्रपुत्रःपितरंपूजयेद्गुरुम् निमज्जयतिपुत्रंवैसंसारेजनकःपिता
संतारयतिसंसाराद्गुरुर्वैबोधकः पिता उभयोरंतरंज्ञात्वापितरंगुरुमर्चयेत्
अंगशुश्रूषयाचापि धनाद्यैः स्वार्जितैर्गुरुम् पादादिकेशपर्यंतंलिंगान्यंगानियद्गुरोः
धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः स्नानाभिषेकनैवेद्यैर्भोजनैश्चप्रपूजयेत्
गुरुपूजैवपूजास्याच्छिवस्यपरमात्मनः गुरुशेषंतुयत्सर्वमात्मशुद्धिकरंभवेत्
गुरोःशेषःशिवोच्छिष्टंजलमन्नादिनिर्मितम् शिष्याणांशिवभक्तानांग्राह्यंभोज्यंभवेद्द्विजाः
गुर्वनुज्ञाविरहितंचोरवत्सकलंभवेत् गुरोरपिविशेषज्ञंयत्नाद्गृह्णीतवैगुरुम्
अज्ञानमोचनंसाध्यंविशेषज्ञोहिमोचकः आदौचविघ्नशमनंकर्तव्यंकर्मपूर्तये
निर्विघ्नेनकृतंसांगंकर्मवैसफलं भवेत् तस्मात्सकलकर्मादौविघ्नेशं पूजयेद् बुधः
सर्वबाधानिवृत्त्यर्थंसर्वान्देवान्यजेद्बुधः ज्वरादिग्रंथिरोगाश्चबाधाह्याध्यात्मिकामता
पिशाचजंबुकादीनांवल्मीकाद्युद्भवेतथा अकस्मादेवगोधादिजंतूनांपतनेपिच
गृहेकच्छपसर्पस्त्रीदुर्जनादर्शनेपिच वृक्षनारीगवादीनांप्रसूतिविषयेपिच
भाविदुःखंसमायातितस्मात्तेभौतिकामता अमेध्या शनिपातश्चमहामारीतथैवच
ज्वरमारीविषूचिश्चगोमारीचमसूरिका जन्मर्क्षग्रहसंक्रांतिग्रहयोगास्वराशिके
दुःस्वप्नदर्शनाद्याश्चमतावैह्यधिदैविकाः शवचांडालपतितस्पर्शाद्येंतर्गृहेगते
एतादृशेसमुत्पन्नेभाविदुःखस्यसूचके शांतियज्ञंतुमतिमान्कुर्यात्तद्दोषशांतये
देवालये ऽथगोष्ठेवाचैत्येवापिगृहांगणे प्रादेशोन्नतधिष्ण्येवैद्विहस्तेयस्वलंकृते
भारमात्रव्रीहिधान्यंप्रस्थाप्यपरिसृत्यच मध्येविलिख्यकमलंतथादिक्षुविलिख्यवै
तंतुनावेष्टितंकुंभं नवगुग्गुलधूपितम् मध्येस्थाप्यमहाकुंभंतथादिक्ष्वपिविन्यसेत्
सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु पूरयेन्मंत्रपूतेनपञ्चद्रव्ययुतेनहि
प्रक्षिपेन्नवरत्नानिनीलादीन्क्रमशस्तथा कर्मज्ञंचसपत्नीकमाचार्यंवरयेद्बुधः
सुवर्णप्रतिमां विष्णोरिंद्रादीनांच निक्षिपेत् सशिरस्केमध्यकुंभेविष्णुमाबाह्यपूजयेत्
प्रागादिषुयथामंत्रमिंद्रादीन्क्रमशोयजेत् तत्तन्नाम्नाचतुर्थ्यांचनमोन्ते नयथाक्रमम्