भवृद्ध्यासर्वमेतद्धिमन्यतेस्वयमैत्यसौ प्रपञ्चसारसर्वस्वमनेनैववशीकृतम्
तस्मादस्यवशीकर्तानास्तीतिसशिवःस्मृतः यथासर्वमृगाणांचहिंसकोमृगहिंसकः
अस्यहिंसामृगोनास्तिततस्मात्सिंह इतीरितः शं नित्यंसुखमानंदमिकारः पुरुषः स्मृतः
वकारः शक्तिरमृतंमेलनंशिव उच्यते तस्मादेवंस्वमात्मानं शिवंकृत्वार्चयेच्छिवम्
तस्मादुद्धूलनंपूर्वं त्रिपुंड्रंधारयेत्परम् पूजाकालेहिसजलंशुद्ध्यर्थंनिर्जलंभवेत्
दिवावा यदिवारात्रौनारीवाथनरोपिवा पूजार्थंसजलंभस्मत्रिपुंड्रेणैवधारयेत्
त्रिपुंड्रंसजलंभस्मधृत्वापूजांकरोतियः शिवपूजांफलंसांगंतस्यैवहिसुनिश्चितम्
भस्मवैशिवमंत्रेणधृत्वाह्यत्याश्रमीभवेत् शिवाश्रमीतिसंप्रोक्तः शिवैकपरमोयतः
शिवव्रतैकनिष्ठस्यनाशौचंनचसूतकम् ललाटे ऽग्रेसितंभस्मतिलकंधारयेन्मृदा
स्वहस्ताद्गुरुहस्ताद्वाशिवभक्तस्यलक्षणम् गुणान्रुंध इति प्रोक्तोगुरुशब्दस्यविग्रहः
सविकारान्राजसादीन्गुणान्रुंधेव्यपोहति गुणातीतः परशिवोगुरुरूपंसमाश्रितः
गुणत्रयंव्यपोह्याग्रेशिवंबोधयतीतिसः विश्वस्तानांतुशिष्याणांगुरुरित्यभिधीयते
तस्माद्गुरुशरीरंतुगुरुलिंगंभवेद्बुधः गुरुलिंगस्यपूजातुगुरुशुश्रूषणं भवेत्
श्रुतंकरोतिशुश्रूषाकायेनमनसागिरा उक्तं यद्गुरुणापूर्वं शक्यंवा ऽशक्यमेववा
करोत्येवहिपूतात्माप्राणैरपिधनैरपि तस्माद्वैशासनेयोग्यः शिष्य इत्यभिधीयते
शरीराद्यर्थकंसर्वंगुरोर्दत्त्वासुशिष्यकः अग्रपाकंनिवेद्याग्रेभुंजीयाद्गुर्वनुज्ञया
शिष्यःपुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः जिह्वालिंगान्मंत्रशुक्रंकर्णयोनौनिषिच्यवै
जातःपुत्रोमंत्रपुत्रःपितरंपूजयेद्गुरुम् निमज्जयतिपुत्रंवैसंसारेजनकःपिता
संतारयतिसंसाराद्गुरुर्वैबोधकः पिता उभयोरंतरंज्ञात्वापितरंगुरुमर्चयेत्
अंगशुश्रूषयाचापि धनाद्यैः स्वार्जितैर्गुरुम् पादादिकेशपर्यंतंलिंगान्यंगानियद्गुरोः
धनरूपैः पादुकाद्यैः पादसंग्रणादिभिः स्नानाभिषेकनैवेद्यैर्भोजनैश्चप्रपूजयेत्
गुरुपूजैवपूजास्याच्छिवस्यपरमात्मनः गुरुशेषंतुयत्सर्वमात्मशुद्धिकरंभवेत्
गुरोःशेषःशिवोच्छिष्टंजलमन्नादिनिर्मितम् शिष्याणांशिवभक्तानांग्राह्यंभोज्यंभवेद्द्विजाः
गुर्वनुज्ञाविरहितंचोरवत्सकलंभवेत् गुरोरपिविशेषज्ञंयत्नाद्गृह्णीतवैगुरुम्
अज्ञानमोचनंसाध्यंविशेषज्ञोहिमोचकः आदौचविघ्नशमनंकर्तव्यंकर्मपूर्तये
निर्विघ्नेनकृतंसांगंकर्मवैसफलं भवेत् तस्मात्सकलकर्मादौविघ्नेशं पूजयेद् बुधः
सर्वबाधानिवृत्त्यर्थंसर्वान्देवान्यजेद्बुधः ज्वरादिग्रंथिरोगाश्चबाधाह्याध्यात्मिकामता
पिशाचजंबुकादीनांवल्मीकाद्युद्भवेतथा अकस्मादेवगोधादिजंतूनांपतनेपिच
गृहेकच्छपसर्पस्त्रीदुर्जनादर्शनेपिच वृक्षनारीगवादीनांप्रसूतिविषयेपिच
भाविदुःखंसमायातितस्मात्तेभौतिकामता अमेध्या शनिपातश्चमहामारीतथैवच