धर्मक्षेत्रे महाक्षेत्रे गंगाकालिन्दिसंगमे प्रयागे परमे पुण्ये ब्रह्मलोकस्य वर्त्मनि
मुनयः शंसितात्मनस्सत्यव्रतपरायणाः महौजसो महाभागा महासत्रं वितेनिरे
तत्र सत्रं समाकर्ण्य व्यासशिष्यो महामुनिः आजगाम मुनीन्द्रष्टुं सूतः पौराणिकोत्तमः
तं दृष्ट्वा सूतमायांतं हर्षिता मुनयस्तदा चेतसा सुप्रसन्नेन पूजां चक्रुर्यथाविधि
ततो विनयसंयुक्ता प्रोचुः सांजलयश्चते सुप्रसन्ना महात्मानः स्तुतिं कृत्वायथाविधि
रोमहर्षण सर्वज्ञ भवान् वै भाग्यगौरवात् पुराणविद्यामखिलां व्यासात्प्रत्यर्थमीयिवान्
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् रत्नानामुरुसाराणां रत्नाकर इवार्णवः
यच्च भूतं च भव्यं च यच्चान्यद्वस्तु वर्तते न त्वया ऽविदितं किंचित्त्रिषु लोकेषु विद्यते
त्वं मद्दिष्टवशादस्य दर्शनार्थमिहागतः कुर्वन्किमपि नः श्रेयो न वृथा गंतुमर्हसि
तत्त्वं श्रुतं स्म नः सर्वं पूर्वमेव शुभाशुभम् न तृप्तिमधिगच्छामः श्रवणेच्छा मुहुर्मुहुः
इदानीमेकमेवास्ति श्रोतव्यं सूत सन्मते तद्रहस्यमपि ब्रूहि यदि ते ऽनुग्रहो भवेत्
प्राप्ते कलियुगे घोरे नराः पुण्यविवर्जिताः दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः
परापवादनिरताः परद्रव्याभिलाषिणः परस्त्रीसक्तमनसः परहिंसापरायणाः
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः
त्यक्तस्वजातिकर्माणः प्राय्हशःपरवंचकाः त्रिकालसंध्यया हीना ब्रह्मबोधविवर्जिताः
अदयाः पंडितंमन्यास्स्वाचारव्रतलोपकाः कृष्युद्यमरताः क्रूरस्वभावा मलिनाशयाः
क्षत्रियाश्च तथा सर्वे स्वधर्मत्यागशीलिनः असत्संगाः पापरता व्यभिचारपरायणाः
अशूरा अरणप्रीताः पलायनपरायणाः कुचौरवृत्तयः शूद्राः कामकिंकरचेतसः
शस्त्रास्त्रविद्यया हीना धेनुविप्रावनोज्झिताः शरण्यावनहीनाश्च कामिन्यूतिमृगास्सदा
प्रजापालनसद्धर्मविहीना भोगतत्पराः प्रजासंहारका दुष्टा जीवहिंसाकरा मुदा
वैश्याः संस्कारहीनास्ते स्वधर्मत्यागशीलिनः कुपथाः स्वार्जनरतास्तुलाकर्मकुवृत्तयः
गुरुदेवद्विजातीनां भक्तिहीनाः कुबुद्धयः अभोजितद्विजाः प्रायः कृपणा बद्धमुष्टयः
कामिनीजारभावेषु सुरता मलिनाशयाः लोभमोहविचेतस्काः पूर्तादिसुवृषोज्झिताः
तद्वच्छूद्राश्च ये केचिद्ब्राह्मणाचारतत्पराः उज्ज्वलाकृतयो मूढाः स्वधर्मत्यागशीलिनः
कर्तारस्तपसां भूयो द्विजतेजोपहारकाः शिश्वल्पमृत्युकाराश्च मंत्रोच्चारपरायणाः
शीलिग्रामशिलादीनां पूजकाहोमतत्पराः प्रतिकूलविचाराश्च कुटिला द्विजदूषकाः
धनवंतः कुकर्माणो विद्यावन्तो विवादिनः आख्यायोपासना धर्मवक्तारो धर्मलोपकाः
सुभूपाकृतयो दंभाः सुदातारो महामदाः विप्रादीन्सेवकान्मत्वा मन्यमाना निजं प्रभुम्
स्वधर्मरहिता मूडाः संकराः क्रूरबुद्धयः महाभिमानिनो नित्यं चतुर्वर्णविलोपकाः