देवदेवस्तदा ब्रह्मा पुष्करे विष्णुना सह। स्नानावसाने देवानां सर्वेषां प्रददौ वरान्
देवानां च पतिं शक्रं ज्योतिषां च दिवाकरं। नक्षत्राणां तथा सोमं रसानां वरुणं तथा
प्रजापतीनां दक्षं च नदीनां चैव सागरं। कुबेरं च धनाध्यक्षं तथा चक्रे च रक्षसां
भूतानां चैव सर्वेषां गणानां च पिनाकिनम्। मानवानां मनुं चैव पक्षिणां गरुडं तथा
ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरं। एवमादीनि वै दत्वा देवदेवः पितामहः
विष्णुं च शंकरं चैव ब्रह्मा प्रोवाच सादरम्। पृथिव्याः सर्वतीर्थेषु भवंतौ पूज्यसत्तमौ
भवद्भ्यां न विना तीर्थं पुण्यतामेति कर्हिचित्। लिंगं वा प्रतिमा वापि दृश्यते यत्रकुत्रचित्
तत्तीर्थं पुण्यतां याति सर्वमेव फलप्रदं। मानवा ह्युपहारैश्च ये करिष्यंति पूजनं
युष्माकं मां पुरस्कृत्य तेषां रोगभयं कुतः। येषु राष्ट्रेषु युष्माकमुत्सवाः पूजनादिकाः
प्रवर्त्स्यंति क्रियाः सर्वा यत्फलं तेषु तच्छृणु। नाधयो व्याधयश्चैव नोपसर्गा न क्षुद्भयं
विप्रयोगो न चापीष्टैरनिष्टैर्नापि संगतिः। नाक्षिरोगः शिरार्तिर्वा पित्तशूल भगंदराः
नाभिचारं भयं तत्रापस्मारो न विषूचिका। वृद्धिर्निकामतस्तस्मिन्सम्यग्बुद्धिरनुत्तमा
आरोग्यं सर्वतश्चैव दीर्घायुश्च प्रजाधनं। नाकाले भविता मृत्युर्गावो नाल्पपयोमुचः
नाकालफलिता वृक्षा नोत्पातभयमण्वपि। एतच्छ्रुत्वा ततो विष्णुर्ब्रह्माणं स्तोतुमुद्यतः
विष्णुरुवाच॥ नमोस्त्वनंताय विशुद्धचेतसे स्वरूपरूपाय सहस्रबाहवे। सहस्ररश्मिप्रभवाय वेधसे विशालदेहाय विशुद्धकर्मणे
समस्तविश्वार्तिहराय शंभवे समस्तसूर्यानलतिग्मतेजसे। नमोस्तु विद्यावितताय चक्रिणे समस्तधीस्थानकृते सदा नमः
अनादिदेवाच्युत शेखरप्रभो भाव्युद्भवद्भूतपते महेश्वर। महत्पते सर्वपते जगत्पते भुवस्पते भुवनपते सदा नमः
यज्ञेश नारायण जिष्णु शंकर क्षितीश विश्वेश्वर विश्वलोचन। शशांकसूर्याच्युतवीरविश्वप्रवृत्तमूर्तेमृतमूर्त अव्यय
ज्वलद्धुताशार्चि निरुद्धमंडल प्रदेशनारायण विश्वतोमुख। समस्तदेवार्तिहरामृताव्यय प्रपाहि मां शरणगतं तथा विभो
वक्त्राण्यनेकानि विभो तवाहं पश्यामि यज्ञस्य गतिं पुराणम्। ब्रह्माणमीशं जगतां प्रसूतिं नमोस्तु तुभ्यं प्रपितामहाय1.34.
संसारचक्रक्रमणैरनेकैः क्वचिद्भवान्देववराधिदेवः। तत्सर्वविज्ञानविशुद्धसत्वैरुपास्यसे किं प्रणमाम्यहं त्वाम्
एवं भवंतं प्रकृतेः पुरस्ताद्यो वेत्त्यसौ सर्वविदां वरिष्ठः। गुणान्वितेषु प्रसभं विवेद्यो विशालमूर्तिस्त्विह सूक्ष्मरूपः
वाक्पाणिपादैर्विगतेन्द्रियोपि कथं भवान्वै सुगतिस्सुकर्मा। संसारबंधे निहितेंद्रियोपि पुनः कथं देववरोसि वेद्यः
मूर्त्तादमूर्त्तं न तु लभ्यते परं परं वपुर्देवविशुद्धभावैः। संसारविच्छित्तिकरैर्यजद्भिरतोवसीयेत चतुर्मुख त्वम्
परं न जानंति यतो वपुस्ते देवादयोप्यद्भुतरूपधारिन्। विभोवतारेग्रतरं पुराणमाराधयेद्यत्कमलासनस्थम्
न ते तत्त्वं विश्वसृजोपि योनिमेकांततो वेत्ति विशुद्धभावः। परं त्वहं वेद्मि कथं पुराणं भवंतमाद्यं तपसा विशुद्धम्
पद्मासनो वै जनकः प्रसिद्ध एवं प्रसिद्धिर्ह्यसकृत्पुराणात्। संचिंत्य ते नाथ विभुं भवंतं जानाति नैवं तपसाविहीनः
अस्मादृशैश्च प्रवरैर्विबोध्यं त्वां देवमूर्खाः स्वमतिं विभज्य। प्रबोद्धुमिच्छन्ति न तेषु बुद्धिरुदारकीर्तिष्वपि वेदहीनाः
जन्मांतरैर्वेद विवेकबुद्धिभिर्भवेद्यथा वा यदि वा प्रकाशः। तल्लाभलुब्धस्य न मानुषत्वं न देवगंधर्वपतिः शिवः स्यात्
न विष्णुरूपो भगवान्सुसूक्ष्मः स्थूलोसि देवः कृतकृत्यतायाः। स्थूलोपि सूक्ष्मः सुलभोसि देव त्वद्बाह्यकृत्या नरकेपतंति