एतयोर्वचसा देवि आवयोश्च शुभानने। मानभंगो न ते कर्तुं यज्यते ब्रह्मणः प्रिये
अस्मदभ्यर्थिता देवि तत्र याहि मुदान्विता। गौर्युवाच॥ अहं च ते प्रिया देवि सर्वदा वदसि स्वयम्
लक्ष्मीश्च ते करे लग्ना दक्षिणे च मया धृता। एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः
नीता सा तु तदा ताभ्यां देवी सा मध्यतः कृता। पुरस्सरौ विष्णुरुद्रौ शक्राद्याश्च तथा सुराः
गंधर्वाप्सरसश्चैव त्रैलोक्यं सचराचम्। तत्रायाता च सा देवी सावित्री ब्रह्मणः प्रिया
सावित्रीं सुमुखीं दृष्ट्वा सर्वलोकपितामहः। गायत्र्या सहितो ब्रह्मा इदं वचनमब्रवीत्
एषा देवी कर्मकरी अहं ते वशगस्थितः। समादिश वरारोहे यत्ते कार्यं मया त्विह
एवमुक्ता च सा देवी स्वयं देवेन ब्रह्मणा। त्रपयाधोमुखी देवी न च किंचिदवोचत
पादयोः पतिता देवी गायत्री ब्रह्मचोदिता। कृतवत्यपराधं ते क्षम देवि नमोस्तु ते
आलिंग्य सादरं कंठे सा परिष्वज्य पीडितां। गायत्रीं सांत्वयामास मान्यश्चैष पतिर्मम
कर्त्तव्यं वचनं तस्य स्त्रीणां प्राणेश्वरः पतिः। उक्तं भगवता पूर्वं सृष्टिकाले विरिंचिना
न च स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्। भर्ता यद्वदते वाक्यं तत्तु कुर्यादकुत्सया
भर्तृनिंदां या कुरुते स्वसृनिंदां तथैव च। परिवादं प्रलापं वा नरकं सा तु गच्छति
पत्यौ जीवति या नारी उपवासव्रतं चरेत्। आयुष्यं हरते भर्तुर्मृता नरकमिच्छति
एवं ज्ञात्वा त्वया भर्तुर्न कार्यं विप्रियं सति। न चास्य दक्षिणं त्वंगं त्वया सेव्यं कथंचन
सर्वकार्ये त्वहं चास्य दक्षिणं पक्षमाश्रिता। सव्यं त्वमायेस्साध्वि पार्श्वे नारदपुष्करौ
ब्रह्मस्थानानि चान्यानि स्थितान्यायतनानि च। लभे वै शोभमानेह यावत्सृष्टिः प्रजायते
भवत्या च मया चैव स्थातव्यं च न संशयः। पुष्करे ब्रह्मणः पार्श्वे वामं च त्वं समाश्रय
अनेन चोपदेशेन सुखं तिष्ठ मयान्विता। गायत्र्युवाच॥ एवमेतत्करिष्यामि तव निर्देशकारिका
तवैवाज्ञा मया कार्या त्वं मे प्राणसमा सखी। अहं ते त्वनुजा देवि सदा मां पातुमर्हसि
देवदेवस्तदा ब्रह्मा पुष्करे विष्णुना सह। स्नानावसाने देवानां सर्वेषां प्रददौ वरान्
देवानां च पतिं शक्रं ज्योतिषां च दिवाकरं। नक्षत्राणां तथा सोमं रसानां वरुणं तथा
प्रजापतीनां दक्षं च नदीनां चैव सागरं। कुबेरं च धनाध्यक्षं तथा चक्रे च रक्षसां
भूतानां चैव सर्वेषां गणानां च पिनाकिनम्। मानवानां मनुं चैव पक्षिणां गरुडं तथा
ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरं। एवमादीनि वै दत्वा देवदेवः पितामहः
विष्णुं च शंकरं चैव ब्रह्मा प्रोवाच सादरम्। पृथिव्याः सर्वतीर्थेषु भवंतौ पूज्यसत्तमौ
भवद्भ्यां न विना तीर्थं पुण्यतामेति कर्हिचित्। लिंगं वा प्रतिमा वापि दृश्यते यत्रकुत्रचित्
तत्तीर्थं पुण्यतां याति सर्वमेव फलप्रदं। मानवा ह्युपहारैश्च ये करिष्यंति पूजनं
युष्माकं मां पुरस्कृत्य तेषां रोगभयं कुतः। येषु राष्ट्रेषु युष्माकमुत्सवाः पूजनादिकाः
प्रवर्त्स्यंति क्रियाः सर्वा यत्फलं तेषु तच्छृणु। नाधयो व्याधयश्चैव नोपसर्गा न क्षुद्भयं