गच्छ त्वमनया सार्द्धं पार्वत्याऽसुरदूषण। गौरी त्वदग्रतो यातु पश्चात्त्वं गच्छ शंकर
प्रतिबोध्यानय यथा शीघ्रमायाति तत्कुरु। एवमुक्तौ तदा तौ तु पार्वतीपरमेश्वरौ
गत्वादिष्टौ दंपती तां प्रोचतुर्ब्रह्मणः प्रियाम्। बृहत्कृत्यं त्वया तत्र करणीयं पतिव्रते
पृच्छस्वेमां वरारोहां गौरीं पर्वतनंदिनीम्। लक्ष्मीं चैतां विशालाक्षीमिंद्राणीं वा शुभानने
यासां वा श्रद्धधासि त्वं पृच्छ देवि नमोस्तु ते। आशीर्वादस्तया दत्तो देवदेवस्य शूलिनः
शरीरार्धे च ते गौरी सदा स्थास्यति शंकर। अनया शोभसे देव त्वया त्रैलोक्यसुंदर
सुखभागि जगत्सर्वं त्वया नाथेन शत्रुहन्। एवं ब्रुवंती सावित्री गृहीता ब्रह्मणः प्रिया
गौर्य्या च वामहस्ते तु लक्ष्म्या वै दक्षिणे करे। अभिवंद्य तु तां देवीं शंकरो वाक्यमब्रवीत्
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः। तत्र गच्छ वरारोहे स्त्रीणां भर्ता परागतिः
बृहदाग्रहणे देवि प्रणयाद्गंतुमर्हसि। लक्ष्मीश्चैषा पार्वती च स्थिता देवि तवाग्रतः
एतयोर्वचसा देवि आवयोश्च शुभानने। मानभंगो न ते कर्तुं यज्यते ब्रह्मणः प्रिये
अस्मदभ्यर्थिता देवि तत्र याहि मुदान्विता। गौर्युवाच॥ अहं च ते प्रिया देवि सर्वदा वदसि स्वयम्
लक्ष्मीश्च ते करे लग्ना दक्षिणे च मया धृता। एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः
नीता सा तु तदा ताभ्यां देवी सा मध्यतः कृता। पुरस्सरौ विष्णुरुद्रौ शक्राद्याश्च तथा सुराः
गंधर्वाप्सरसश्चैव त्रैलोक्यं सचराचम्। तत्रायाता च सा देवी सावित्री ब्रह्मणः प्रिया
सावित्रीं सुमुखीं दृष्ट्वा सर्वलोकपितामहः। गायत्र्या सहितो ब्रह्मा इदं वचनमब्रवीत्
एषा देवी कर्मकरी अहं ते वशगस्थितः। समादिश वरारोहे यत्ते कार्यं मया त्विह
एवमुक्ता च सा देवी स्वयं देवेन ब्रह्मणा। त्रपयाधोमुखी देवी न च किंचिदवोचत
पादयोः पतिता देवी गायत्री ब्रह्मचोदिता। कृतवत्यपराधं ते क्षम देवि नमोस्तु ते
आलिंग्य सादरं कंठे सा परिष्वज्य पीडितां। गायत्रीं सांत्वयामास मान्यश्चैष पतिर्मम
कर्त्तव्यं वचनं तस्य स्त्रीणां प्राणेश्वरः पतिः। उक्तं भगवता पूर्वं सृष्टिकाले विरिंचिना
न च स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्। भर्ता यद्वदते वाक्यं तत्तु कुर्यादकुत्सया
भर्तृनिंदां या कुरुते स्वसृनिंदां तथैव च। परिवादं प्रलापं वा नरकं सा तु गच्छति
पत्यौ जीवति या नारी उपवासव्रतं चरेत्। आयुष्यं हरते भर्तुर्मृता नरकमिच्छति
एवं ज्ञात्वा त्वया भर्तुर्न कार्यं विप्रियं सति। न चास्य दक्षिणं त्वंगं त्वया सेव्यं कथंचन
सर्वकार्ये त्वहं चास्य दक्षिणं पक्षमाश्रिता। सव्यं त्वमायेस्साध्वि पार्श्वे नारदपुष्करौ
ब्रह्मस्थानानि चान्यानि स्थितान्यायतनानि च। लभे वै शोभमानेह यावत्सृष्टिः प्रजायते
भवत्या च मया चैव स्थातव्यं च न संशयः। पुष्करे ब्रह्मणः पार्श्वे वामं च त्वं समाश्रय
अनेन चोपदेशेन सुखं तिष्ठ मयान्विता। गायत्र्युवाच॥ एवमेतत्करिष्यामि तव निर्देशकारिका
तवैवाज्ञा मया कार्या त्वं मे प्राणसमा सखी। अहं ते त्वनुजा देवि सदा मां पातुमर्हसि