मन्वंतरे व्यतीते तु यज्ञस्यावभृथोभवत्। दक्षिणा ब्रह्मणे दत्ता प्राची होतुस्तु दक्षिणा
अद्ध्वर्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा। त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम्
धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये। अष्टौ तु यज्ञवाहानां चत्वारिंशाधिकास्तथा
द्वितीयस्थानिनां चैव चतुर्विंशत्प्रकीर्तिताः। षोडशैव तृतीयानां देया वै धेनवः शुभाः
द्वादशैव तथा चान्या आग्नीध्रादिषु दापयेत्। अनया संख्यया चैव ग्रामान्दासीरजाविकं
सहस्रभोज्यं दातव्यं स्नात्वा चावभृथे क्रतौ। यजमानेन सर्वस्वं देयं स्वायंभुवोब्रवीत्
अद्ध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते। विष्णुं चाहूय वै ब्रह्मा वाक्यमाह मुदान्वितः
अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत। त्वयि दृष्टे न सा कोपं करिष्यति शुभानना
स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः। त्वं सदा मधुराभाषी जिह्वा ते स्रवतेमृतम्
यः करोति न ते वाक्यं त्रैलोक्ये न स दृश्यते। गंधर्वैः सहितो गत्वा प्रियां मम समानय
त्वया प्रसादिता साद्ध्वी तुष्टा सा त्वेष्यति ध्रुवम्। विलंबो न त्वया कार्यो व्रज माधव माचिरम्
लक्ष्मीस्ते पुरतो यातु सावित्र्याः सदनं शुभा। तस्यास्त्वं पदवीं गच्छ सांत्वयस्व प्रियां मम
न च ते विप्रियं देवि विविक्तं कर्तुमीहते। मुखं प्रेक्ष्य सदा कालं वर्तते तव सुंदरि
एवंविधानि वाक्यानि मधुराणि बहूनि च। देवी श्रावयितव्या सा यथातुष्टाऽचिराद्भवेत्
एवमुक्तस्तदा विष्णुर्ब्रह्मणा लोककारिणा। जगाम त्वरितो भूत्वा सावित्री यत्र तिष्ठति
दूरादेवागच्छमानं पत्न्या सह च केशवम्। उत्तस्थौ सत्वरा भूत्वा विष्णुना चाभिवंदिता
नमस्ते देवदेवेशि ब्रह्मपत्नि नमोस्तु ते। त्वां नमस्कृत्य सर्वो हि जनः पापात्प्रमुच्यते
पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता। अहर्निशं चिंतयंस्त्वां प्रसादं तेभिकांक्षति
सखीं चैनां प्रियां पृच्छ लक्ष्मीं भृगुसुतां सतीम्। यदि च श्रद्दधा नासि वाक्यादस्मात्सुलोचने
एवमुक्त्वा ततः शौरिः सावित्र्याश्चरणद्वयम्। उभाभ्यां चैव हस्ताभ्यां क्षम देवि नमोस्तु ते
जगद्वंद्ये जगन्मातरिति स्पृष्ट्वाऽभ्यवन्दत। संकोच्य पादौ सा देवी स्वकरेण करौ हरेः
गृहीत्वोवाच तं विष्णुं सर्वं क्षान्तं मयाच्युत। इयं लक्ष्मीः सदा वत्स हृदये ते निवत्स्यति
विना त्वया न चान्यत्र रतिं यास्यति कर्हिचित्। भृगोः पत्न्यां समुत्पन्ना पत्न्येषा तव सुव्रता
देवदानवयत्नेन संभूता चोदधौ पुनः। भगवान्यत्र तत्रैषा अवतारं च कुर्वती
देवत्वे देवदेहा वै मानुषत्वे च मानुषी। त्वत्सहाया न संदेहो दांपत्यव्रतिनी चिरम्
यन्मया चात्र कर्त्तव्यं प्रभोतन्मां वदस्व वै। विष्णुरुवाच॥ यज्ञावसानं संजातं प्रेषितोहं तवांतिकं
सावित्रीमानय क्षिप्रं मया स्नानं समाचरेत्। आगच्छ त्वरिता देवि याहि तत्र मुदान्विता
पश्यस्व स्वपतिं गत्वा देवैः सर्वैस्समन्वितम्। लक्ष्मीरुवाच॥ आर्ये उत्तिष्ठ शीघ्रं त्वं याहि यत्र पितामहः
विना त्वया न यास्यामि स्पृष्टौ पादौ मया तव। उत्थाप्य साग्रहीद्धस्तं दक्षिणा दक्षिणे करे
चिरायमाणां सावित्रीं ज्ञात्वा देवः पितामहः। समीपस्थं महादेवमिदमाह तदा वचः1.34.