भीष्म उवाच॥ कस्मिन्काले भगवता ब्रह्मणा लोककारिणा। यज्ञियैर्यष्टुमारब्धं तद्भवान्वक्तुमर्हति
किं नामान ऋत्विजस्ते ब्रह्मणा ये प्रकल्पिताः। का च वै दक्षिणा तेषां दत्ता तेन महात्मना
यथाभूतं यथावृत्तं तथा त्वं मे प्रकीर्तय। सुमहत्कौतुकं जातं यज्ञं पैतामहं प्रति
पुलस्त्य उवाच॥ पूर्वमेव मया ख्यातं यदा स्वायंभुवो मनुः। सृष्ट्वा प्रजापतीन्सर्वानुक्तः सृष्टिं कुरुष्व वै
स्वयं तु पुष्करं गत्वा यज्ञस्याहृत्य विस्तरम्। ससंभारान्समानाय्य वह्न्यगारे स्थितोभवत्
गायंति नित्यं गंधर्वा नृत्यंत्यप्सरसां गणाः। ब्रह्मोद्गाता होताध्वर्युश्चत्वारो यज्ञवाहकाः
एकैकस्य त्रयश्चान्ये परिवाराः स्वयंकृताः। ब्रह्मा च ब्रह्मणाच्छंसी पोता चाग्नीध्र एव च
आन्वीक्षिकी सर्वविद्या ब्राह्मी ह्येषा चतुष्टयी। उद्गाता च प्रत्युद्गाता प्रतिहर्ता सुब्रह्मण्यः
चतुष्टयी द्वितीयैषा तूद्गातुश्च प्रकीर्तिता। होता च मैत्रावरुणस्तथाऽच्छावाक एव च
ग्रावस्तुच्च चतुर्थोत्र तृतीया च चतुष्टयी। अध्वर्युश्च प्रतिष्ठाता नेष्टोन्नेता तथैव च
चतुष्टयी चतुर्थ्येषा प्रोक्ता शंतनुनंदन। एते वै षोडश प्रोक्ता ऋत्विजो वेदचिंतकैः
शतानि त्रीणि षष्टिश्च यज्ञाः सृष्टाः स्वयंभुवा॥ एतांश्चैतेषु सर्वेषु प्रवदंति सदा द्विजान्
सदस्यं केचिदिच्छंति त्रिसामाध्वर्युमेव च। ब्रह्माणं नारदं चक्रे ब्राह्मणाच्छंसि गौतमम्
देवगर्भं च पोतारमाग्नीध्रं चैव देवलम्। उद्गातांगिरसः प्रत्युद्गाता च पुलहस्तथा
नारायणः प्रतिहर्ता सुब्रह्मण्योत्रिरुच्यते। तस्मिन्यज्ञे भृगुर्होता वसिष्ठो मैत्र एव च
अच्छावाकः क्रतुः प्रोक्तो ग्रावस्तुच्च्यवनस्तथा। पुलस्त्योद्ध्वर्युरेवासीत्प्रतिष्ठाता च वै शिबिः
बृहस्पतिस्तत्र नेष्टा उन्नेता शांशपायनः। धर्मः सदस्यस्तत्रासीत्पुत्रपौत्रसहायवान्
भरद्वाजः शमीकश्च पुरुकुत्सो युगंधरः। एनकस्तीर्णकश्चैव केशः कुतप एव च
गर्गो वेदशिराश्चैव त्रिसामाद्ध्वर्यवः कृताः। कण्वादयस्तथा चान्ये मार्कंडो गंडिरेव च
पुत्रपौत्रसमेताश्च सशिष्याः सहबांधवाः। कर्माणि तत्र कुर्वाणा दिवानिशमतंद्रिताः
मन्वंतरे व्यतीते तु यज्ञस्यावभृथोभवत्। दक्षिणा ब्रह्मणे दत्ता प्राची होतुस्तु दक्षिणा
अद्ध्वर्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा। त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम्
धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये। अष्टौ तु यज्ञवाहानां चत्वारिंशाधिकास्तथा
द्वितीयस्थानिनां चैव चतुर्विंशत्प्रकीर्तिताः। षोडशैव तृतीयानां देया वै धेनवः शुभाः
द्वादशैव तथा चान्या आग्नीध्रादिषु दापयेत्। अनया संख्यया चैव ग्रामान्दासीरजाविकं
सहस्रभोज्यं दातव्यं स्नात्वा चावभृथे क्रतौ। यजमानेन सर्वस्वं देयं स्वायंभुवोब्रवीत्
अद्ध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते। विष्णुं चाहूय वै ब्रह्मा वाक्यमाह मुदान्वितः
अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत। त्वयि दृष्टे न सा कोपं करिष्यति शुभानना
स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः। त्वं सदा मधुराभाषी जिह्वा ते स्रवतेमृतम्
यः करोति न ते वाक्यं त्रैलोक्ये न स दृश्यते। गंधर्वैः सहितो गत्वा प्रियां मम समानय