दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमपातयच्च। तस्तंभयः कुलिशयुक्तमथेंद्रहस्तं तं शंकरं शरणदं शरणं व्रजामि
एनःकृतोपिविषयेष्वपिसक्तचित्ताज्ञानान्वयश्रुतगुणैरपिनैवयुक्ताः। यं संश्रिताः सुखभुजः पुरुषा भवंति तं शंकरं शरणदं शरणं व्रजामि
अत्रिप्रसूतिरविकोटिसमानतेजाः संत्रासनं विबुधदानवसत्तमानाम्। यः कालकूटमपिबत्प्रसभं सुदीप्तं तं शंकरं शरणदं शरणं व्रजामि
ब्रह्मेंद्ररुद्रमरुतां च सषण्मुखानां दद्याद्वरं सुबहुशो भगवान्महेशः। नन्दिं च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि
आराधितः सुतपसा हिमवन्निकुंजे धूमव्रतेन मनसापि परैरगम्ये। संजीवनीमकथयद्भृगवे महात्मा तं शंकरं शरणदं शरणं व्रजामि
नानाविधैर्गजबिडालसमानवक्त्रैर्दक्षाध्वरप्रमथनैर्बलिभिर्गणैंद्रैः । योभ्यर्चितोमरगणैश्च सलोकपालैस्तं शंकरं शरणदं शरणं व्रजामि
शंखेंदुकुंदधवलं वृषभं प्रवीरमारुह्य यः क्षितिधरेंद्रसुतानुयातः। यात्यंबरं प्रलयमेघविभूषितं च तं शंकरं शरणदं शरणं व्रजामि
शांतं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानम्। भक्त्यानतं स्तुतिपरं प्रसभं ररक्ष तं शंकरं शरणदं शरणं व्रजामि
यः सव्यपाणि कमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव पुरस्सुराणाम्। ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त्त तं शंकरं शरणदं शरणं व्रजामि
यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतंद्रितात्मा। दीप्तस्तमांसि नुदते स्वकरैर्विवस्वांस्तं शंकरं शरणदं शरणं व्रजामि
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य। ऐश्वर्यमाननिगमानुशयेन पश्चात्ते यातनामनुभवंत्यविशुद्धचित्ताः
तस्यैवं स्तुवतोऽवोचच्छूलपाणिर्वृषध्वजः। उवाच वचनं हृष्टो राघवं तुष्टमानसः
रुद्र उवाच। राम हृष्टोस्मि भद्रं ते जातस्त्वं निर्मले कुले। त्वं चापि जगतां वंद्यो देवो मानुषरूपधृत्
त्वया नाथेन वै देवाः सुखिनः शाश्वतीः समा। सेविष्यंते चिरं कालं गते वर्षे चतुर्दशे
अयोध्यामागतं त्वां ये द्रक्ष्यंति भुवि मानवाः। सुखं तेऽत्र भजिष्यंति स्वर्गे वासन्तथाक्षयम्
देवकार्यं महत्कृत्वा आगच्छेथाः पुनः पुरीम्। राघवस्तु तथा देवं नत्वा शीघ्रं विनिर्गतः
इंद्रमार्गां नदीं प्राप्य जटाजूटं नियम्य च। अब्रवील्लक्ष्मणं राम इदमर्पय मे धनुः
रामवाक्यं तु तच्छ्रुत्वा सीतां वै लक्ष्मणोऽब्रवीत्। किमर्थं देवि रामेण त्यक्तोहं कारणं विना
अपराधं न जानामि कुपितो यन्महाभुजः। रामेणाहं परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम्
नैव मे जीवितेनार्थो धिग्धिङ्मां कुलपांसनम्। आर्यस्य येन वै मन्युर्जनितः पापकारिणा
कांस्तु लोकान्गमिष्यामि अपध्यातो महात्मना। उभौ हस्तौ मुखे कृत्वा साश्रुकंठोऽब्रवीदिदम्
नापराध्यामि रामस्य कर्मणा मनसा गिरा। स्पृष्टौ ते चरणौ देवि मम नान्या गतिर्भवेत्
ततः सीताऽब्रवीद्रामं त्यक्तः किमनुजस्त्वया। वैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मिवर्धने
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम्। न कदाचिदपि स्वप्ने लक्ष्मणस्य मतं प्रिये
श्रुतपूर्वं च सुश्रोणि क्षेत्रस्यास्य विचेष्टितम्। अत्र क्षेत्रे जनास्सत्यं सर्वे हि स्वार्थतत्पराः
परस्परं न पश्यंति स्वात्मनश्च हितं वचः। न शृण्वंति पितुः पुत्राः पुत्राणां पितरस्तथा
न शिष्या हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुः। अर्थानुबंधिनीप्रीतिर्न कश्चित्कस्यचित्प्रियः
इत्येवं कथयन्नेव प्राप्तो रेवां महानदीम्। चक्रेभिषेकं काकुत्स्थः सानुजः सह सीतया
तर्पयित्वा च सलिलैः स्वान्पितॄन्दैवतान्यपि। उदीक्ष्य च मुहुः सूर्यं देवताश्च समाहितः
कृताभिषेकस्तु रराज रामः सीता द्वितीयः सह लक्ष्मणेन। कृताभिषेकः सह शैलपुत्र्या गुहेन सार्धं भगवानिवेशः