हृष्टा चैषा क्लेशयति सततं मां रघूत्तम। त्वं च क्लेशयसे राम परत्र जायते क्षतिः
त्वत्कृते च सदा चाहं पिपासां क्षुधया सह। संसहामि न संदेहः परत्र च निशामय
मृतानां पृष्ठतः कश्चिद्गतो नैव च दृश्यते। भार्य्या पुत्रो धनं चापि एवमाहुर्मनीषिणः
मृतश्च ते पिता राम त्यक्त्वा राज्यमकंटकम्। विनिक्षिप्य वने त्वां च कैकेय्याः प्रियकाम्यया
इहस्थिता सा कैकेयी धनं सर्वे च बांधवाः। महाराजो दशरथ एक एव गतो गतिम्
मन्येहं न त्वया सार्धं सीता यास्यति वै ध्रुवम्। करिष्यसे किमनया वद राघव सांप्रतम्
श्रुत्वा चाश्रुतपूर्वं हि वाक्यं लक्ष्मणभाषितम्। विमना राघवस्तस्थौ सीता चापि वरानना
यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकार ह। स्नात्वा भुक्त्वा ततो वीरौ पुष्करे पुष्करेक्षणौ
नीत्वा विभावरीं तत्र गमनाय मनो दधुः। एह्युत्तिष्ठ च सौमित्रे व्रजामो दक्षिणां दिशम्
सौमित्रिरब्रवीद्राम नाहं यास्ये कथंचन। व्रज त्वमनया सार्धं भार्यया कमलेक्षण
नान्यद्वनं गमिष्यामि नैवायोध्यां च राघव। अस्मिन्वने वसिष्यामि वर्षाणीह चतुर्दश
मया विना त्वयोध्यायां यदि त्वं न गमिष्यसि। अनेन वर्त्मना भूप आगंतव्यं त्वया विभो
यदि जीवामि तत्कालं पुनर्यास्ये पितुः पुरम्। तपस्संभावयिष्यामि मया त्वं किं करिष्यसि
व्रज सौम्य शिवः पंथामा च ते परिपंथिनः। पश्यामि त्वां पुनः प्राप्तं सभार्यं कमलेक्षणम्
पितृपैतामहं राज्यमयोध्यायां नराधिप। शत्रुघ्नभरतौ चोभौ त्वदाज्ञाकरणे स्थितौ
अहं ते प्रतिकूलस्तु वनवासे विशेषतः। अनारतं दिवा चाहं रात्रौ चैव परंतप
कर्मकर्तुं न शक्रोमि व्रज सौम्य यथासुखम्। एवं ब्रुवाणं सौमित्रिमुवाच रघुनंदनः
कथं पूर्वमयोध्याया निर्गतोसि मया सह। वने वत्स्याम्यहं राम नववर्षाणि पंच च
न तु त्वया विरहितः स्वर्गेपि निवसे क्वचित्। या गतिस्ते नरव्याघ्र मम सापि भविष्यति
प्रसादः क्रियतां मह्यं नय मामपि राघव। इदानीमर्धमार्गे त्वं कथं स्थास्यसि शत्रुहन्
लक्ष्मणस्त्वब्रवीद्रामं नाहं गंता वने पुनः। लक्ष्मणं संस्थितं ज्ञात्वा रामो वचनमब्रवीत्
मामनुव्रज सौमित्र एको यास्यामि काननम्। द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः
गृहीत्वाऽथ समुत्तस्थौ रामवाक्यं स लक्ष्मणः। मर्यादापर्वतं प्राप्तौ क्षेत्रसीमां परंतपौ
अजगंधं च देवेशं देवदेवं पिनाकिनम्। अष्टांगप्रणिपातेन नत्वा रामस्त्रिलोचनम्
तुष्टाव प्रयतः स्थित्वा शंकरं पार्वतीप्रियम्। कृतांजलिपुटो भूत्वा रोमांचितशरीरकः1.33.
सात्विकं भावमापन्नो विनिर्धूतरजस्तमाः। लोकानां कारणं देवं बुबुधे विबुधाधिपम्
राम उवाच। कृत्स्नस्य योऽस्य जगतः स चराचरस्य कर्ता कृतस्य च पुनः सुखदुःखदश्च। संहारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि
योऽयं सकृद्विमलचारुविलोलतोयां गंगां महोर्मिविषमां गगनात्पतंतीम्। मूर्ध्ना दधेऽस्रजमिव प्रविलोलपुष्पां तं शंकरं शरणदं शरणं व्रजामि
कैलासशैलशिखरं परिकम्प्यमानं कैलासशृंगसदृशेन दशाननेन। यत्पादपद्मविधृतं स्थिरतां दधार तं शंकरं शरणदं शरणं व्रजामि
येनासकृद्दनुसुताः समरे निरस्ता विद्याधरोरगगणाश्च वरैः समग्रैः। संयोजिता मुनिवराः फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि