एतादृशी कथं त्वस्मै संप्रदातुं समुत्सहे। याहं राज्ञा पुरा दृष्टा सर्वालङ्कारभूषिता
बालव्यजनहस्ता च वीजयंती नराधिपम्। सा स्वेदमलदिग्धांगी कथं पश्यामि भूमिपम्
व्यक्तं त्रिविष्टपं प्राप्तस्त्वया पुत्रेण तारितः। दृष्ट्वा मां दुःखितां बालां वने क्लिष्टामनागसम्
शोकः स्यात्पार्थिवस्यास्य तेन नष्टास्मि राघव। भवान्प्राणसमो राम न ते गोप्यं ममत्विह
सत्येन तेन चैवाथ स्पृशामि चरणौ तव। तच्छ्रुत्वा राघवः प्रीतः प्रियां तां प्रियवादिनीम्
अंकमानीय सुदृढं परिष्वज्य च सादरम्। भुक्तौ भोज्यं तदा वीरौ पश्चाद्भुक्ता च जानकी
एवं स्थितौ तदा सा च तां रात्रिं तत्र राघवौ। उदिते च सहस्रांशौ गमनाय मनो दधुः
प्रत्यङ्मुखं गतः क्रोशं ज्येष्ठं यावच्च पुष्करम्। पूर्वभागे पुष्करस्य यावत्तिष्ठति राघवः
शुश्राव च ततो वाचं देवदूतेन भाषितम्। भो भो राघव भद्रं ते तीर्थमेतत्सुदुर्लभम्
अस्मिन्स्थाने स्थितो वीर आत्मनः पुण्यतां कुरु। देवकार्यं त्वया कार्यं हंतव्या देवशत्रवः
ततो हृष्टमना वीरो ह्यब्रवील्लक्ष्मणं वचः। सौमित्रेऽनुगृहीतोहं देवदेवेन ब्रह्मणा
अत्राश्रमपदं कृत्वा मासमेकं च लक्ष्मण। व्रतं चरितुमिच्छामि कायशोधनमुत्तमम्
तथेति लक्ष्मणेनोक्ते व्रतं परिसमाप्यतु। पिंडदानादिभिर्दानैः श्राद्धैश्चैव पितामहान्
पुष्करे तु तदा रामोऽतर्पयद्विधिवत्तदा। कनका सुप्रभा चैव नंदा प्राची सरस्वती
पंचस्रोताः पुष्करेषु पितॄणां तुष्टिदायिनी। दैनंदिनीं पितॄणां तु पूजां तां पितृपूर्विकाम्
रचयित्वा तदा रामो लक्ष्मणं वाक्यमब्रवीत्। एहि लक्ष्मण शीघ्रं त्वं पुष्कराज्जलमानय
पादप्रक्षालनं कृत्वा शयनं कुरु संस्तरे। विभावर्यां निवृत्तायां यास्यामो दक्षिणां दिशम्
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतयानीय तां पयः। नाहं राम सर्वकाले दासभावं करोमि ते
इयंपुष्टाचसुभृशंपीवरीचममाप्युत। किं त्वं करिष्यस्यनया भार्यया वद सांप्रतम्
किं वा मृतस्य वै पृष्ठ इयं यास्यति ते प्रिया। रक्षसे त्वं सदा कालं सुपुष्टां चैव सर्वदा
हृष्टा चैषा क्लेशयति सततं मां रघूत्तम। त्वं च क्लेशयसे राम परत्र जायते क्षतिः
त्वत्कृते च सदा चाहं पिपासां क्षुधया सह। संसहामि न संदेहः परत्र च निशामय
मृतानां पृष्ठतः कश्चिद्गतो नैव च दृश्यते। भार्य्या पुत्रो धनं चापि एवमाहुर्मनीषिणः
मृतश्च ते पिता राम त्यक्त्वा राज्यमकंटकम्। विनिक्षिप्य वने त्वां च कैकेय्याः प्रियकाम्यया
इहस्थिता सा कैकेयी धनं सर्वे च बांधवाः। महाराजो दशरथ एक एव गतो गतिम्
मन्येहं न त्वया सार्धं सीता यास्यति वै ध्रुवम्। करिष्यसे किमनया वद राघव सांप्रतम्
श्रुत्वा चाश्रुतपूर्वं हि वाक्यं लक्ष्मणभाषितम्। विमना राघवस्तस्थौ सीता चापि वरानना
यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकार ह। स्नात्वा भुक्त्वा ततो वीरौ पुष्करे पुष्करेक्षणौ
नीत्वा विभावरीं तत्र गमनाय मनो दधुः। एह्युत्तिष्ठ च सौमित्रे व्रजामो दक्षिणां दिशम्
सौमित्रिरब्रवीद्राम नाहं यास्ये कथंचन। व्रज त्वमनया सार्धं भार्यया कमलेक्षण