चतुर्दशानां वर्षाणां भविता राघव ध्रुवम्। कुरु श्राद्धं तथा वीर राज्ञो दशरथस्य च
अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाः। अहं च जमदग्निश्च भारद्वाजश्च लोमशः
देवरातः शमीकश्च षडेते वै द्विजोत्तमाः। श्राद्धे च ते महाबाहो संभारांस्त्वमुपाहर
मुख्यं चेंगुदिपिण्याकं बदरामलकैः सह। श्रीफलानि च पक्वानि मूलं चोच्चावचं बहु
मार्गेण चाथ मांसेन धान्येन विविधेन च। तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत
पुष्करारण्यमासाद्य नियतो नियताशनः। पितॄंस्तर्पयते यस्तु सोश्वमेधमवाप्नुयात्
स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम्। इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप
लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगम्। शुद्धेक्षणं च शशकं कृष्णशाकं तथा मधु
जंबीराणि च मुख्यानि मूलानि विविधानि च। पक्वानि च कपित्थानि फलान्यन्यानि यानि च
तान्याहरस्व वै श्राद्धे क्षिप्रमेवास्तु लक्ष्मण। तथा तत्कृतवान्सर्वं रामादेशाच्च राघवः
बदरेङ्गुदिशाकानि मूलानि विविधानि च। तत्राहृत्य च रामेण कूटाकारः कृतो महान्
परिपक्वं च जानक्या सिद्धं रामे निवेदितम्। स्नात्वा रामो योगवाप्यां मुनींस्ताननुपालयन्
मध्याह्नाच्चलिते सूर्ये काले कुतपके तथा। आयाता ऋषयः सर्वे ये रामेणानुमंत्रिताः
तानागतान्मुनीन्दृष्ट्वा वैदेही जनकात्मजा। रामांतिकं परित्यज्य व्रीडिताऽन्यत्र संस्थिता
विस्मयोत्फुल्लनयना चिंतयाना च वेपती। ब्राह्मणा नेह जानंति श्राद्धकाले ह्युपस्थिताः
रामेण भोजिता विप्राः स्मृत्युक्तेन यथाविधि। वैदिक्यश्च कृतास्सर्वाः सत्क्रिया यास्समीरिताः
पुराणोक्तो विधिश्चैव वैश्वदेविकपूर्वकः। भुक्तवत्सु च विप्रेषु दत्वा पिंडान्यथाक्रमम्
प्रेषितेषु यथाशक्ति दत्वा तेषु च दक्षिणाम्। गतेषु विप्रमुख्येषु प्रियां रामोऽब्रवीदिदम्
किमर्थं सुभ्रु नष्टासि मुनीन्दृष्ट्वा त्विहागतान्। तत्सर्वं त्वमिदं तत्वं कारणं वद माचिरम्
भवितव्यं कारणेन तच्च गोप्यं न मे कुरु। शापितासि मम प्राणैर्लक्ष्मणस्य शुचिस्मिते
एवमुक्ता तदा भर्त्रा त्रपयाऽवाङ्मुखी स्थिता। विमुंचंती साऽश्रुपातं राघवं वाक्यमब्रवीत्
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम्। राम त्वयाऽचिंत्यमानो राजेंद्रस्त्विह चागतः
सर्वाभरणसंयुक्तौ द्वौ चान्यौ च तथाविधौ। द्विजानां देहसंयुक्तास्त्रयस्ते रघुनंदन
पितरस्तु मया दृष्टा ब्राह्मणांगेषु राघव। दृष्ट्वा त्रपान्विता चाहमपक्रांता तवांतिकात्
त्वया वै भोजिता विप्राः कृतं श्राद्धं यथाविधि। वल्कलाजिनसंवीता कथं राज्ञः पुरःसरा1.33.
भवामि रिपुवीरघ्न सत्यमेतदुदाहृतम्। कौशेयानि च वस्त्राणि कैकेय्यापहृतानि च
ततः प्रभृति चैवाहं चीरिणी तु वनाश्रयम्। ज्ञात्वाहं न वदे किंचिन्मा ते दुःखं भवत्विति
नाहं स्मरामि वै मातुर्न पितुश्च परंतप। कदा भविष्यतीहांतो वनवासस्य राघव
एतदेवानिशं राम चिंतयंत्याः पुनः पुनः। व्रजंति दिवसा नाथ तव पद्भ्यां शपाम्यहम्
स्वहस्तेन कथं राज्ञो दास्ये वै भोजनं त्विदम्। दासानामपि यो दासो नोपभुंजीतयत्क्वचित्