चं चक्ररूपिणे विष्णो धारणं चक्रजं स्मृतम् । शं शंखरूपिणे तुभ्यं नमोऽस्तु सुखकारिणे
मंत्रेणानेन वै दूता धारणं शंखजं स्मृतम् । चतुर्णामायुधानां तु धारणं मुनिभिः स्मृतम्
अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं तथा । ब्राह्मणस्य तथैवेदं तप्तमुद्रादि धारणम्
चंदनेन सुगंधेन गोपिकाचंदनेन तु । धारणं च विशेषेण ब्राह्मणैर्वेदपारगैः
चांडालोऽपि भवेच्छुद्धो धारणाच्च न संशयः । ऊर्ध्वं पुंड्रमृजुं सौम्यं सचिह्नं धारयेद्यदि
स चांडालोऽपि शुद्धात्मा पूज्य एव सदा द्विजैः । चांडालानां गृहे दूतास्तुलसी यत्र दृश्यते
तत्रत्या तुलसी ग्राह्या भक्तिभावेन चेतसा
महादेव उवाच- पप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम् । पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम्
तवाग्रे संप्रवक्ष्यामि शृणु सुंदरि सांप्रतम् । इदं कथानकं दिव्यमृषीणां व्रतमुत्तमम्
रजस्वला तु या नारी सहसा पापरूपिणी । कृतेन च व्रतेनैव महापापैः प्रमुच्यते । पितॄणामक्षयं देयं धर्मकामार्थसाधनम्
श्रीविष्णुरुवाच- पूर्वमासीन्महाबाहुर्ब्राह्मणो वेदपारगः । सदाध्ययनशीलस्तु देवशर्मा इति द्विजः
अग्निहोत्रक्रियायुक्तः षट्कर्मनिरतः सदा । सर्ववर्णेषु संपूज्यः सपुत्रपशुबांधवः
तस्य ब्राह्मणमुख्यस्य भग्ना च गृहवाहिनी । प्राप्ते भाद्रपदे मासे शुक्लपक्षे तु पंचमी
पितुःक्षयाहं कुरुते यतात्मा च जितेंद्रियः । रात्रौ निमंत्रयेद्विप्रान्सुखसौभाग्यदायकान्
प्रभाते विमले प्राप्ते भांडान्यन्यानि कारयेत् । पाकं सर्वेषु पात्रेषु स कारयति जायया
अष्टादशरसोपेतं पितॄणां प्रीतिदायकम् । आकारणं ततो दत्त्वा विप्राणां च पृथक्पृथक्
सर्वे विप्रास्तु संप्राप्ता मध्याह्ने वेदपाठकाः । अर्घपाद्यादि विधिवत्कृतवान्द्विजसत्तमः
रजसा दूषितः श्राद्धे प्रक्षाल्य विधिवत्तदा । गृहमध्ये गताः सर्वे आसने ते निरूपिताः
प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतः । विधिना च कृतं श्राद्धं पिंडदानप्रपूर्वकम्
तांबूलं दक्षिणां चैव वस्त्राणि विविधानि च । सर्वं ददौ द्विजेभ्यो वै पितृध्यानपरायणः
विप्रा विसर्जिताः सर्वे आशीर्वादपरायणाः । गोत्रिणां बांधवानां च अन्येषां च बुभुक्षताम्
दत्तमन्नं तदा तेन भोजने विधिपूर्वकम् । निशायां तु कुटीद्वारे उपविष्टो यदा तदा
ब्राह्मण्या वारि संगृह्य पादप्रक्षालनं कृतम् । तदा शुनी बलीवर्दौ परस्परमभाषताम्
शृणु कांत वचो मह्यं यादृक्कृतवती वधूः । तादृशं संप्रवक्ष्यामि नान्यथा प्रब्रवीम्यहम्
कदाचिद्दैवयोगेन गताहं पुत्रसद्मनि । तत्रस्थितं पयः पातुं वध्वा दृष्टं न तत्पुनः
पीतं पयस्तु सर्पेण तद्दृष्टं तु मया पुनः । पश्चात्पीतं मया सम्यक्दृष्टं वध्वा तदा पुनः
तेन संपर्कदोषेणकटिर्भग्ना च मे सदा । तेन दुःखेन भो स्वामिन्जाताहं दुःखभागिनी । भग्ना कटिश्च संजाता ह्याहारो नैव रोचते
बलीवर्द्द उवाच- शृणु त्वं शुनि वक्ष्यामि मम दुःखस्य कारणम् । अस्मिन्वै दिवसे प्राप्ते ब्राह्मणानां तु भोजनम्
कारितं मम पुत्रेण मम चिंता तु नो कृता । नोदकं न तृणं चैव न दत्तं केनचित्क्वचित्
अनाहारोह्यहं पापी बद्धोऽस्मिन्पापभावितः । पूर्वपापविशेषेण जातं शुनि न संशयः