अवियोगा च सुरसा वापी रघुकुलोद्वह। तथा सौभाग्यकूपोन्यः सुजलो रघुनंदन
तेषु पिंडप्रदानेन पितरो मोक्षमाप्नुयुः। आभूतसंप्लवं कालमेतदाह पितामहः
तत्र राघव गच्छस्व भूयोप्यागमनं क्रियाः। तथेति चोक्त्वा रामोपि गमनाय मनो दधे
ऋक्षवंतमभिक्रम्य नगरं वैदिशं तथा। चर्मण्वतीं समुत्तीर्य प्राप्तोसौ यज्ञपर्वतम्
तमतिक्रम्य वेगेन मध्यमे पुष्करे स्थितः। पितॄन्संतर्पयामास अद्भिर्देवांश्च सर्वशः
स्नानावसाने रामेण मार्कंडो मुनिपुंगवः। आगच्छन्शिष्यसंयुक्तो दृष्टस्तत्रैव धीमता
गत्वा वै संमुखं तस्य प्रणिपत्य च सादरम्। पृष्टोऽवियोगदः कूपः कतमस्यां दिशि प्रभो
सुतो दशरथस्याहं रामो नाम जनैः स्मृतः। सौभाग्यवापीं तां द्रष्टुमहं प्राप्तोत्रिशासनात्
तत्स्थानं तौ च वै कूपौ भगवान्प्रब्रवीतु मे। एवमुक्तश्च रामेण मार्कंडः प्रत्युवाच ह
मार्कंडेय उवाच। साधु राघव भद्रं ते सुकृतं भवता कृतम्। तीर्थयात्राप्रसंगेन यत्प्राप्तोसीह सांप्रतम्
एह्यागच्छस्व पश्य स्ववापीं तामवियोगदाम्। अवियोगश्च सर्वैश्च कूप एवात्र जायते
आमुष्मिके चैहिके च जीवतोपि मृतस्य वा। एतद्वाक्यं मुनींद्रस्य श्रुत्वा लक्ष्मणपूर्वजः
सस्मार रामो राजानं तदा दशरथं नृप। भरतं सह शत्रुघ्न्रंभातॄनन्यांश्चनागरान्
एवंचिंतयतस्तस्य संध्याकालो व्यजायत। उपास्य पश्चिमां संध्यां मुनिभिःसह राघवः
सुष्वाप तां निशां तत्र भ्रातृभार्यासमन्वितः। विभावर्यवसाने तु स्वप्नांते रघुनंदनः
पित्रा मात्रा तथा चान्यैरयोध्यायां स्थितः किल। विवाहमंगले वृत्ते बहुभिर्बांधवैः सह
समासीनः सभार्योऽसावृषिभिः परिवारितः। लक्ष्मणेनाप्येवमेव दृष्टोऽसौ सीतया तथा
प्रभाते तु मुनीनां तत्सर्वमेव प्रकीर्तितम्। ऋषिभिश्च तथेत्युक्तः सत्यमेतद्रघूत्तम
मृतस्य दर्शने श्राद्धं कार्यमावश्यकं स्मृतम्। वृद्धिकामास्तु पितरस्तथा चैवान्नकांक्षिणः
ददंति दर्शनं स्वप्ने भक्तियुक्तस्य राघव। अवियोगस्तु ते भ्रात्रा पित्रा च भरतेन च
चतुर्दशानां वर्षाणां भविता राघव ध्रुवम्। कुरु श्राद्धं तथा वीर राज्ञो दशरथस्य च
अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाः। अहं च जमदग्निश्च भारद्वाजश्च लोमशः
देवरातः शमीकश्च षडेते वै द्विजोत्तमाः। श्राद्धे च ते महाबाहो संभारांस्त्वमुपाहर
मुख्यं चेंगुदिपिण्याकं बदरामलकैः सह। श्रीफलानि च पक्वानि मूलं चोच्चावचं बहु
मार्गेण चाथ मांसेन धान्येन विविधेन च। तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत
पुष्करारण्यमासाद्य नियतो नियताशनः। पितॄंस्तर्पयते यस्तु सोश्वमेधमवाप्नुयात्
स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम्। इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप
लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगम्। शुद्धेक्षणं च शशकं कृष्णशाकं तथा मधु
जंबीराणि च मुख्यानि मूलानि विविधानि च। पक्वानि च कपित्थानि फलान्यन्यानि यानि च
तान्याहरस्व वै श्राद्धे क्षिप्रमेवास्तु लक्ष्मण। तथा तत्कृतवान्सर्वं रामादेशाच्च राघवः