तीर्थयात्रां गता विप्रा मार्कंडेयो निजं गृहम्। जगाम तेषु यातेषु पितरं स्वमथाब्रवीत्
ब्रह्मलोकमहं नीतो मुनिभिर्ब्रह्मवादिभिः। दीर्घायुश्च कृतश्चास्मि वरान्दत्वा विसर्जितः
एतदन्यच्च मे दत्तं गतं चिंताकरं तव। कल्पस्यादौ तथा चांते भविष्ये समनंतरे
लोककर्तुर्ब्रह्मणोहं प्रसादात्तस्य वै पितः। पुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यतः
तत्राहं देवदेवेशमुपासिष्ये पितामहम्। सर्वकामावाप्तिकरं सर्वारातिनिबर्हणम्
सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणम्। ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम्
मार्कंडेयवचः श्रुत्वा मृकंडुर्मुनिसत्तमः। जगाम परमं हर्षं क्षणमेकं समुच्छ्वसन्
धैर्यं सुमनसा स्थाय इदं वचनमब्रवीत्। अद्य मे सफलं जन्म जीवितं च सुजीवितम्
सर्वस्य जगतां स्रष्टा येन दृष्टः पितामहः। त्वया दायादवानस्मि पुत्रेण वंशधारिणा
त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहम्। दृष्टे तस्मिन्जगन्नाथे न जरामृत्युरेव च
नृणां भवति सौख्यानि तथैश्वर्यं तपोऽक्षयम्। त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च
पुष्कराणि तथा त्रीणि नविद्मस्तत्र कारणम्। कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करम्
शृंगशब्दाभिधानानि शुभप्रस्रवणानि च। ब्रह्माविष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः
पुष्करेषु महाराजा नातः पुण्यतमं भुवि। विरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम्
ब्रह्मलोकस्य पन्थानं धन्याः पश्यंति पुष्करं। यस्तु वर्षशतं साग्रमग्निहोत्रमुपासते
कार्तिकीं वा वसेदेकां पुष्करे सममेव च। कर्तुम्मया न शकितं कर्मणा नैव साधितम्
तदयत्नात्त्वया तात मृत्युस्सर्वहरो जितः। तत्र दृष्टस्स देवेशो ब्रह्मा लोकपितामहः
नान्यो मर्त्यस्त्वया तुल्यो भविता जगतीतले। अहं वै तोषितो येन पञ्चवार्षिकजन्मना
वरेण त्वं मदीयेन उपमां चिरजीविनाम्। गमिष्यसि न सन्देहस्तथाशीर्वचनम्मम
एवं वदन्ति ते सर्वे व्रज लोकान्यथेप्सितान्। एवं लब्धप्रसादेन मृकण्डुतनयेन च
आश्रमःस्थापितस्तेन मार्कण्डाश्रम इत्युत। तत्र स्नात्वा शुचिर्भूत्वा वाजपेयफलं लभेत्
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः। पुलस्त्य उवाच। तथान्यं ते प्रवक्ष्यामि इतिहासं पुरातनम्
यथा रामेण वै तीर्थं पुष्करं तु विनिर्मितम्। चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च
अत्रेराश्रममासाद्य पप्रच्छ मुनिसत्तमम्। राम उवाच। कानि पुण्यानि तीर्थानि किं वा क्षेत्रं महामुने
यत्र गत्वा नरो योगिन्वियोगं सह बंधुभिः। नैव प्राप्नोति भगवन्तन्ममाचक्ष्व सुव्रत1.33.
अनेन वनवासेन राज्ञस्तु मरणेन च। भरतस्य वियोगेन परितप्ये ह्यहं त्रिभिः
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा। ध्यात्वा च सुचिरं कालमिदं वचनमब्रवीत्
अत्रिरुवाच। साधु पृष्टं त्वया वीर रघूणां वंशवर्धन। मम पित्रा कृतं तीर्थं पुष्करं नाम विश्रुतम्
पर्वतौ द्वौ च विख्यातौ मर्यादा यज्ञपर्वतौ। कुंडत्रयं तयोर्मध्ये ज्येष्ठमध्यकनिष्ठकम्
तेषु गत्वा दशरथं पिंडदानेन तर्पय। तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम्