चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौ। ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात्
पितामह ऋषीन्दृष्ट्वा प्रोवाच विस्मयान्वितः। कार्येण येन चायातः कोयं बालो निवेद्यताम्
ततस्त ऋषयो राजन्सर्वं तस्मै न्यवेदयन्। पुत्रो मृकंडोः क्षीणायुः सायुषं कुरु बालकम्
अल्पायुषस्त्वस्य मुनिर्बध्वेमां चापि मेखलाम्। यज्ञोपवीतं दंडं च दत्वा चैनमबोधयत्
यं कंचित्पश्यसे बाल भ्रमंतं भूतले जनम्। तस्याभिवादः कर्तव्य एवमाह पिता वचः
अभिवादनशीलोयं क्षितौ दृष्टः परिभ्रमन्। तीर्थयात्राप्रसंगेन दैवयोगात्पितामह
चिरायुर्भव पुत्रेति प्रोक्तोसौ तत्र बालकः। कथं वचो भवेत्सत्यमस्माकं भवता सह
एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः। ऋतवाक्यादियं भूमिः संस्थिता सर्वतोभया
ब्रह्मोवाच। मत्समश्चायुषा बालो मार्कंडेयो भविष्यति। कल्पस्यादौ तथाचांते मतो मे मुनिसत्तमः
एवं ते मुनयो बालं ब्रह्मलोके पितामहात्। संसाध्य प्रेषयामासुर्भूयोप्येनं धरातलम्
तीर्थयात्रां गता विप्रा मार्कंडेयो निजं गृहम्। जगाम तेषु यातेषु पितरं स्वमथाब्रवीत्
ब्रह्मलोकमहं नीतो मुनिभिर्ब्रह्मवादिभिः। दीर्घायुश्च कृतश्चास्मि वरान्दत्वा विसर्जितः
एतदन्यच्च मे दत्तं गतं चिंताकरं तव। कल्पस्यादौ तथा चांते भविष्ये समनंतरे
लोककर्तुर्ब्रह्मणोहं प्रसादात्तस्य वै पितः। पुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यतः
तत्राहं देवदेवेशमुपासिष्ये पितामहम्। सर्वकामावाप्तिकरं सर्वारातिनिबर्हणम्
सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणम्। ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम्
मार्कंडेयवचः श्रुत्वा मृकंडुर्मुनिसत्तमः। जगाम परमं हर्षं क्षणमेकं समुच्छ्वसन्
धैर्यं सुमनसा स्थाय इदं वचनमब्रवीत्। अद्य मे सफलं जन्म जीवितं च सुजीवितम्
सर्वस्य जगतां स्रष्टा येन दृष्टः पितामहः। त्वया दायादवानस्मि पुत्रेण वंशधारिणा
त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहम्। दृष्टे तस्मिन्जगन्नाथे न जरामृत्युरेव च
नृणां भवति सौख्यानि तथैश्वर्यं तपोऽक्षयम्। त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च
पुष्कराणि तथा त्रीणि नविद्मस्तत्र कारणम्। कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करम्
शृंगशब्दाभिधानानि शुभप्रस्रवणानि च। ब्रह्माविष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः
पुष्करेषु महाराजा नातः पुण्यतमं भुवि। विरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम्
ब्रह्मलोकस्य पन्थानं धन्याः पश्यंति पुष्करं। यस्तु वर्षशतं साग्रमग्निहोत्रमुपासते
कार्तिकीं वा वसेदेकां पुष्करे सममेव च। कर्तुम्मया न शकितं कर्मणा नैव साधितम्
तदयत्नात्त्वया तात मृत्युस्सर्वहरो जितः। तत्र दृष्टस्स देवेशो ब्रह्मा लोकपितामहः
नान्यो मर्त्यस्त्वया तुल्यो भविता जगतीतले। अहं वै तोषितो येन पञ्चवार्षिकजन्मना
वरेण त्वं मदीयेन उपमां चिरजीविनाम्। गमिष्यसि न सन्देहस्तथाशीर्वचनम्मम
एवं वदन्ति ते सर्वे व्रज लोकान्यथेप्सितान्। एवं लब्धप्रसादेन मृकण्डुतनयेन च