सरस्वती नदीं प्राप्य न स्नाने नियमः क्वचित्। भुक्ते वा न च वा भुक्ते दिवा वा यदि वा निशि
तत्तीर्थं सर्वत्तीर्थानां प्राचीनं प्रवरं स्मृतत्। पापघ्नं पुण्यजननं प्राणिनां परिकीर्तितम्
ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनम्। पूजयन्ति यथाशक्ति ते प्रयांति त्रिविष्टपम्
देवानां प्रवरो विष्णुस्तेन यत्र सरस्वती। सेविता तत्परं तीर्थं क्षितौ ब्रह्मसुतोऽब्रवीत्
ततस्तस्मान्महातीर्थं मन्यमाना महोदयम्। मंदाकिनीमुदीक्षंती स्थिता तत्र सरस्वती
तत्तीर्थं सर्वतीर्थानां परं स्वायंभुवोऽब्रवीत्। मंदाकिन्यासमं यत्र प्राप्य पुण्यसमागमम्
तत्रस्थाने स्थिता देवैः स्तुता देवी सरस्वती। मत्वा चैकाकिनीं तां तु दीनास्यां दीनमानसां
सखीं तदाऽसृजद्ब्रह्मा रूपिणीं विमलेक्षणाम्। हरिणीं हरिरप्याशु जज्ञे कमललोचनाम्
वज्रिणीमपि देवेशो वज्रपाणिर्विसृष्टवान्। सुकुरंगरुचिं देवो नीलकंठो वृषध्वजः1.32.
सखीं संजनयामास सरस्वत्यास्त्रिलोचनः। विलोक्यमाना सा राजन्सखीभिः सुरसुंदरी
प्रहृष्टा यातुमारब्धा देवादेशान्महानदी। ततः सखीभिः सार्द्धं सा प्राचीनागंतुमुद्यता
सरस्वती समस्तानां तासां श्रेष्ठतमा स्मृता। प्राचीसरस्वतीतोयं ये पिबंति मृगा भुवि
तेपि स्वर्गं गमिष्यंति यज्ञैर्द्विजवरा यथा। चिंतामणिरिवात्रैषा प्राची ज्ञेया सरस्वती
तथा कामफलस्येयं हेतुभूता महानदी। दक्षिणां दिशमालोक्य पुनः पश्चान्मुखी गता
उक्ता तया तथा गंगा दिशं प्राचीं व्रजस्व ह। विस्मर्तव्या न चाहं ते व्रज देवि यथागतम्
भीष्म उवाच। मार्कंडेयेन वै रामः कथमत्र प्रबोधितः। कथं समागमो भूतः कस्मिन्काले कदा मुने
मार्कंडेयः कस्य सुतः कथं जातो महातपाः। नाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने
पुलस्त्य उवाच। अथ ते संप्रवक्ष्यामि मार्कंडेयोद्भवं पुनः। पुराकल्पे मुनिः पूर्वं मृकंडुर्नाम विश्रुतः
भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपः। तस्य पुत्रस्तदा जातो वसतस्तु वनांतरे
सपंचवार्षिको भूतो बाल एव गुणाधिकः। ज्ञानिना स तदा दृष्टो भ्रमन्बालस्तदांगणे
स्थित्वा स सुचिरं कालं भाव्यर्थं प्रत्यबुध्यत। तस्य पित्रा स वै पृष्टः कियदायुः सुतस्य मे
संख्यायाचक्ष्व वर्षाणि तस्याल्पान्यधिकानि वा। मृकंडुनैवमुक्तस्तु स ज्ञानी वाक्यमब्रवीत्
षण्मासमायुः पुत्रस्य धात्रा सृष्टं मुनीश्वर। नैव शोकस्त्वया कार्यः सत्यमेतदुदाहृतम्
स तच्छ्रुत्वा वचो भीष्म ज्ञानिना यदुदाहृतम्। अथोपनयनं चक्रे बालकस्य पिता तदा
आह चैनं पितापुत्रमृषींस्त्वमभिवादय। एवमुक्तः स वै पित्रा प्रहृष्टश्चाभिवादने
न वर्णा वर्णतां वेत्ति सर्ववर्णाभिवादनः। पंचमासास्त्वतिक्रांता दिवसाः पंचविंशतिः
मार्गेणाथ समायाता ऋषयस्तत्र सप्त वै। बालेन तेन ते दृष्टाः सर्वे चाप्यभिवादिताः
आयुष्मान्भव तैरुक्तः स बालो दंडमेखली। उक्त्वैवं ते पुनर्बालमपश्यन्क्षीणजीवितम्
दिनानि पंच तस्यायुर्ज्ञात्वा भीताश्च ते नृप। तं गृहीत्वा बालकं च गतास्ते ब्रह्मणोंतिकम्
प्रतिमुच्य च तं राजन्प्रणिपेतुः पितामहम्। अयमावेदितस्तैस्तु तेन ब्रह्माभिवादितः